________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
१७३
॥ अथ चतुर्थोऽध्यायः॥
प्रथमः पादः द्विर्धातुः परोक्षा-डे , प्राक् तु स्वरे स्वरविधेः ।४।१।१॥ परोक्षायां डे च परे धातुर्द्धि: स्यात् , स्वरादौ तु द्वित्वनिमित्ते स्वरस्य कार्यात् प्रागेव । पपाच , अचकमत । धातुरिति किम् ? प्राशिश्रियत् । प्रागिति किम् ? चक्रतुः । स्वर इति किम् ? जेघ्रीयते । स्वरविधेरिति किम् ? शुशाव । प्राक् तु स्वरे स्वरविधेरिति आद्विवचनमधिकार: ॥१॥
__आद्योऽश एकस्वरः ।४।१।२॥ अनेकस्वरस्य धातोराद्य एकस्वरोऽवयव: परोक्षा-डेपरे द्वि: स्यात् । जजागार , अचकाणत् ।।२॥
सन्-यङश्च १४॥१॥३॥ सन्नन्तस्य यङन्तस्य चाऽऽद्य एकस्वरोंऽशो द्वि: स्यात् । तितिक्षते , पापच्यते
॥३॥
स्वरादेर्द्वितीयः ।४।२४॥ स्वरादेद्वर्युक्तिभाजो द्वितीयोऽश एकस्वरो द्वि: स्यात् । अटिटिषति , अशाश्यते । प्राक् तु स्वरे स्वरविधेरित्येव-आटिटत् ।।४।।
न ब-द-नं संयागादिः ।४।।५॥ स्वरादेर्धातोद्वितीयस्यांशस्यैकम्बरस्य ब-द-ना: संयोगस्याद्या न द्विः स्युः । उलिजिषति , अट्टिटिषते , उन्दिदिषति । संयोगादिरिति किम् ? प्राणिणिषति ||५||
अयि रः ।४।११६॥ स्वरादेर्धातोर्द्वितीयस्यांशस्यैकस्वरस्य संयोगादी रो द्विर्न स्यात् , न तु रादनन्तरे यि । अर्चिचिषति । अयीति किम् ? अरार्यते ॥६।।
नाम्नो द्वितीयाद् यथेष्टम् ।४।१।७॥ स्वरादेर्नामधातोर्द्वित्वभाजो द्वितीयादारभ्यैकस्वरोंऽशो यथेष्टं द्वि: स्यात् । अशिश्वीयिषति , अश्वीयियिषति , अश्वीयिषिषति ।।७।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org