________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
चल्याहारार्थेङ्-बुध-युध-पु-द्रु-सु-नश-जनः ।३।३।१०८॥ चल्यर्था-ऽऽहारार्थेभ्य इडादिभ्यश्च णिगन्तेभ्य: कर्तरि परस्मैपदं स्यात् । चलयति , कम्पयति ; भोजयति , आशयति चैत्रमन्नम् ; सूत्रमध्यापयति शिष्यम् , बोधयति पद्मं रविः , योधयति काष्ठानि , प्रावयति राज्यम् , द्रावयत्ययः , स्रावयति तैलम् , नाशयति पापम् , जनयति पुण्यम् ।।१०८।।
[इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ] तृतीयस्याध्यायस्य तृतीयः पादः समाप्तः ।।३।३।।
श्रीदुर्लभेशद्युमणे: पादास्तुष्टुविरे न कैः ? । लुलद्भिर्मेदिनीपालैर्वालिखिल्यैरिवाग्रतः ॥११।।
१. समाप्तः पा१ P1J3 विना नास्ति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org