SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ • १५८ स्वोपज्ञलघुवृत्तिविभूषितं गां जानीते जानाति वा । स्वं शत्रुमपवदते अपवदति वा । स्वान् व्रीहीन् संयच्छते संयच्छति वा ।।९९।। शेषात् परस्मै ।३।३।१००॥ येभ्यो धातुभ्यो येन विशेषेणाऽऽत्मनेपदमुक्तं ततोऽन्यस्मात् कर्त्तरि परस्मैपदं स्यात् । भवति , अत्ति ॥१००।। परानोः कृगः ।३।३।१०१॥ परानुपूर्वात् कृग: कर्तरि परस्मैपदं स्यात् । पराकरोति , अनुकरोति ।।१०१।। प्रत्यभ्यतेः क्षिपः ।३।३।१०२॥ एभ्यः परात् क्षिप: कर्तरि परस्मैपदं स्यात् । प्रतिक्षिपति , अभिक्षिपति , अतिक्षिपति ।।१०२।। प्राद् वहः ।३।३।१०३॥ अत: कर्तरि परस्मैपदं स्यात् । प्रवहति ।।१०३।। परेम॒षश्च ।३।३।१०४॥ परे: परान्मृषेर्वहेश्च कर्तरि परस्मैपदं स्यात् । परिमृष्यति , परिवहति ॥१०४|| व्याङ्-परे रमः ।३।३।१०५॥ एभ्य: पराद् रमे: कर्तरि परस्मैपदं स्यात् । विरमति , आरमति , परिरमति ॥१०५।। वोपात् ।३।३।१०६॥ उपाद् रमे: कर्तरि परस्मैपदं वा स्यात् । भार्यामुपरमति , उपरमते वा ।।१०६।। अणिगि प्राणिकर्तृकानाप्याण्णिगः ।३।३।१०७॥ अणिगवस्थायां य: प्राणिकर्तृकोऽकर्मकश्च धातुस्तस्मात् णिगन्तात् कर्त्तरि परस्मैपदं स्यात् । आसयति चैत्रम् । अणिगीति किम् ? स्वयमेवारोहयमाणं गजं प्रयुङ्क्ते आरोहयते । अणिगिति गित् किम् ? चेतयमानं प्रयुङ्क्ते चेतयति । प्राणिकर्तृकादिति किम् ? शोषयते व्रीहीन् आतपः । अनाप्यादिति किम् ? कटं कारयते ।१०७|| १. अणिगिति किम् P1, P3, पा३,४ विना ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy