________________
१५६
स्वोपज्ञलघुवृत्तिविभूषितं
। वितपते उत्तपते रविः , वितपते उत्तपते पाणिम् ।।८७||
अणिकर्मणिकर्तृकाण्णिगोऽस्मृतौ ।३।३१८८॥ अणिगवस्थायां यत्कर्म तदेव णिगवस्थायां कर्ता यस्य तस्माद् णिगन्तादस्मृत्यर्थात् कर्त्तर्यात्मनेपदं स्यात् । आरोहयते हस्ती हस्तिपकान् । अणिगिति किम् ? आरोहयति हस्तिपकान् महामात्र: , आरोहयन्ति महामात्रेण हस्तिपका: । गित् किम् ? गणयते गणो गोपालकम् । कर्मेति किम् ? दर्शयति प्रदीपो भृत्यान् । णिगिति किम् ? लुनाति केदारं चैत्रः , लूयते केदारः स्वयमेव , तं प्रयुङ्क्ते लावयति केदारं चैत्रः । कर्तेति किम् ? आरोहन्ति हस्तिनं हस्तिपका: , तानेनमारोहयति महामात्र: । णिग इति किम् ? आरोहन्ति हस्तिनं हस्तिपका: , तानारोहयते हस्तीत्यणिगि मा भूत् । अस्मृताविति किम् ? स्मरयति वनगुल्म: कोकिलम् ।।८८॥
प्रलम्भे गृधि-वञ्चेः ।३।३।८९॥ आभ्यां णिगन्ताभ्यां वञ्चनाभ्यां कर्त्तर्यात्मनेपदं स्यात् । बटुं गर्द्धयते वञ्चयते वा । प्रलम्भ इति किम् ? श्वानं गर्द्धयति ।।८९।।
लीङ्-लिनोऽर्चा-ऽभिभवे चाऽऽच्चाकर्त्तर्यपि ।३।३।९०॥ आभ्यां णिगन्ताभ्यामर्चा-ऽभिमव-प्रलम्भार्थाभ्यां कर्त्तर्यात्मनेपदं स्याद् , आचानयोरकर्त्तर्यपि । अर्चा -जटाभिरालापयते। अभिभव -श्येनो वर्तिकामपलापयते । प्रलम्भ -कस्त्वामुल्लापयते ? । अकर्त्तर्यपीति किम् ? जटाभिरालाप्यते जटिलेन ॥९॥
स्मिङः प्रयोक्तुः स्वार्थे ।३।३।९१॥ प्रयोक्तृतो य: स्वार्थः स्मयस्तदर्थात् णिगन्तात् स्मिङ: कर्त्तर्यात्मनेपदं स्यात् , आचास्याऽकर्तर्यपि । जटिलो विस्मापयते । प्रयोक्तु: स्वार्थ इति किम् ? रूपेण विस्माययति । अकर्त्तर्यपीत्येव-विस्मापनम् ।।९१।।
बिभेते ए च ।३।३।९२॥ प्रयोक्तृतः स्वार्थवृत्तेर्ण्यन्ताद् भिय: कर्त्तर्यात्मनेपदं स्यात् , अस्य च भीष् , पक्षे आच्चाऽकर्त्तर्यपि । मुण्डो भीषयते , भापयते वा । प्रयोक्तुः स्वार्थ इत्येव-कुञ्चिकया भाययति । अकर्त्तर्यपीत्येव-भीषा , भापनम् ।।१२।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org