________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
चिते: कचि दीर्घ: स्यात् । एकचितीकः ।।८३।। स्वामिचिह्नस्याऽविष्टा-ऽष्ट-पञ्च-भिन्न-च्छिन्न-च्छिद्र-स्रुव-स्वस्तिकस्य कर्णे।३।२।८४॥
स्वामी चिह्नयते येन तद्वाचिनो विष्टादिवर्जस्य कर्णे उत्तरपदे दीर्घ: स्यात् । दात्राकर्ण: पशुः । स्वामिचिह्नस्येति किम् ? लम्बकर्णः । विष्टादिवर्जनं किम् ? विष्टकर्णः , अष्टकर्ण इत्यादि ।।८४॥ गति-कारकस्य नहि-वृति-वृषि-व्यधि-रुचि-सहि-तनौ कौ ।३।२।८५॥
गति-कारकयोर्नह्यादौ क्विबन्ते उत्तरपदे दीर्घः स्यात् । उपानत् , नीवृत् , प्रावृट् , श्वावित् , नीरुक् , ऋतीषट् , जलासट् , परीतत् ॥८५।
घञ्युपसर्गस्य बहुलम् ।३।२।८६॥ घअन्ते उत्तरपदे उपसर्गस्य बहुलं दीर्घः स्यात् । नीक्लेदः , नीवार: । बाहुलकात् क्वचिद् वा - प्रतीवेश: , प्रतिवेश: । क्वचिन्न - विषाद: , निषादः ॥८६।।
नामिनः काशे ।३।२।८७॥ नाम्यन्तस्योपसर्गस्याऽजन्ते काशे उत्तरपदे दीर्घः स्यात् । नीकाश: , वीकाश: । नामिन इति किम् ? प्रकाशः ।।८७||
दस्ति ।३।२।८८॥ दो यस्तादिरादेशस्तस्मिन् परे नाम्यन्तस्योपसर्गस्य दीर्घः स्यात् । नीत्त्तम् , वीत्त्तम् । द इति किम् ? वितीर्णम् । तीति किम् ? सुदत्तम् ।।८८।।
अपील्वादेर्वहे ।३।२।८९॥ पील्वादिवर्जस्य नाम्यन्तस्य वहे उत्तरपदे दीर्घ: स्यात् । ऋषीवहम् , मुनीवहम् । अपील्वादेरिति किम् ? पीलुवहम् , दारुवहम् ।।८९।।
शुनः ।३।२।९०॥ अस्योत्तरपदे दीर्घः स्यात् । श्वादन्त: , श्वावराहम् ।।९०।
___एकादश-षोडश-षोडत्-षोढा-षड्ढा ।३।२।९१॥ एकादयो दशादिषु कृतदीर्घत्वादयो निपात्यन्ते । एकादश , षोडश , षड् दन्ता अस्य षोडन् , षोढा , षड्ढा ।।९१।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org