________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
१३३
नवैकस्वराणाम् ।३।२।६६॥ एकस्वरस्य ड्यन्तस्य तरादौ प्रत्यये ब्रुवादौ चोत्तरपदे स्त्र्येकार्थे वा ह्रस्व: स्यात्। स्त्रितरा , स्त्रीतरा ; ज्ञितमा , ज्ञीतमा ; ज्ञिब्रुवा , ज्ञीब्रुवा । एकस्वराणामिति किम् ? कुटीतरा ।।६६।।
उङः ।३।२।६७॥ ऊङन्तस्य तरादौ ब्रुवादौ चोत्तरपदे स्त्र्येकार्थे वा ह्रस्व: स्यात् । ब्रह्मबन्धुतरा , ब्रह्मबन्धूतरा ; कद्रुब्रुवा , कब्रुवा ॥६७||
महतः कर-घास-विशिष्टे डाः ।३।२।६८॥ करादावुत्तरपदे महतो डा वा स्यात् । महाकरः , महत्कर: ; महाघास: , महद्घास: ; महाविशिष्टः , महद्विशिष्टः ।।६८।।
स्त्रियाम् ।३।२।६९॥ स्त्रीवृत्तेर्महत: करादावुत्तरपदे नित्यं डा: स्यात् । महाकरः , महाघास: , महाविशिष्टः ||६९।।
जातीयैकार्थेऽच्चेः ।३।२१७०॥ महतोऽच्च्यन्तस्य जातीयरि एकार्थे चोत्तरपदे डा: स्यात् । महाजातीयः , महावीरः । जातीयैकार्थे इति किम् ? महत्तरः । अच्वेरिति किम् ? महद्भूता कन्या ।।७०॥
न मुवनिषेधे ।३।२७१॥ महत: पुंवनिषेधविषये उत्तरपदे डा न स्यात् । महतीप्रिय: ।।७१।।
इच्यस्वरे दीर्घ आच्च ।३।२।७२॥ इजन्तेऽस्वरादावुत्तरपदे पूर्वपदस्य दीर्घ आच्च स्यात् । मुष्टीमुष्टि , मुष्टामुष्टि । अस्वर इति किम् ? अस्यसि ।।७२।।।
हविष्यष्टनः कपाले ।३।२।७३॥ हविष्यर्थे कपाले उत्तरपदेऽष्टनो दीर्घ: स्यात् । अष्टाकपालं हवि: । हविषीति किम् ? अष्टकपालम् । कपाल इति किम् ? अष्टपात्रं हविः ॥७३।।
१. तरादौ प्रत्यये पा१ खं२ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org