________________
एतेषां जीवानां शरीरमायुः स्थितिः स्वकाये । प्राणा यानिप्रमाणं येषां यदस्ति तद् भणिष्यामः ॥२६॥ अङ्गुलासख्येयभागः शरीरमेकेन्द्रियाणां सर्वेषाम् । योजनसहस्रमधिकं नवरं प्रत्येकवृक्षाणाम् ॥२७॥ द्वादश योजनानि त्रीण्येव गव्यूतानि योजनं चानुक्रमशः। द्धीन्द्रियत्रीन्द्रियचतुरिन्द्रियदेहस्योच्चत्वम् ॥२८॥ पञ्चशतधनुः प्रमाणा नैरयिकाः सप्तम्यां पृथिव्याम् । ततो झैना ज्ञेया रत्नप्रभा यावत् ॥२९॥ योजनसहस्रमाना मत्स्या उरगाश्च गर्भजा भवन्ति । धनुःपृथक्त्वं पक्षिषु मुजपरिसाणां गब्यूतपृथक्त्वम् ॥३०॥ खचराणां धनुःपृथक्त्वं भुजगानामुरगाणां च योजनपृथक्त्वम् । गव्यूतिपृथक्त्वमात्राः संमूर्छिमाश्चतुष्पदा भणिताः ॥३१॥ पड्गव्यतय एव चतुष्पदा गर्भजा ज्ञातव्याः । क्रोशत्रिकं च मनुष्या उत्कृष्टशरीरमानेन ॥३२॥ ईशानान्तमुराणाँ रत्नयः सप्त भवन्त्युच्चत्वम् । द्विकद्विकद्विकचतुष्कौवेयकानुत्तरेष्वेकैकपरिहानिः ॥३३॥ द्वाविंशतिः पृथिव्याः सप्तापूकायस्य त्रीणि वायुकायस्य । वर्षसहस्राणि दश तरुगणानां तेजस्कायस्य त्रीण्यहोरात्राण्यायुः ॥ वर्षाणि द्वादशायुद्वीन्द्रियाणां त्रीन्द्रियाणां तु । एकोनपश्चाशदिनानि चतुरिन्द्रियाणां तु षष्मासाः ॥३५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org