________________
६२
5
1C
15
20
25
30
आचार्यश्रीहरिभद्रसूरिविरचितटीकासमलङ्कृते पञ्चसूत्रके
एवं सदा शुभयोगः श्रामण्यव्यापार सङ्गतः । एष योगी व्याख्यातः । एवंभूतो भगवद्भिर्योगी प्रतिपादितः । यथोक्तम् -
सम्यक्त्वज्ञानचारित्रयोगः सद्योग उच्यते । एतद्योगाद्धि योगी स्यात् परमब्रह्मसाधकः ॥ [
]
एष एवंभूत आराधकः श्रामण्यस्य, निष्पादकः श्रमणभावस्य । यथागृहीतप्रतिज्ञः, आदित आरभ्य सम्यक्प्रवृत्तेः । एवं सर्वोपधाशुद्धो निरतिचारत्वेन । किम् ? इत्याह- संघते घटयति, शुद्धं भवं जन्मविशेषलक्षणं भवैरेव । अयमेव विशेष्यते - सम्यगभवसाधकम्, सत्क्रियाकरणेन मोक्षसाधकमित्यर्थः । निदर्शनमाह-भोगक्रिया-सुरूपादिकल्पम्, न रूपादिविकलस्यैताः सम्यग् भवन्ति । यथोक्तम्-.
'रूपवयोवैचक्षण्य सौभाग्यमाधुर्यैश्वर्याणि भोगसाधनम् [ ] इति । ततस्ताः संपूर्णाः प्राप्नोति सुरूपादिकल्पाद् भवाद् भोगक्रिया इत्यर्थः । कुतः ? इत्याह- अविकल हेतुभावतः कारणादिति । किंविशिष्टाः ? इत्याह- असंक्लिष्टसुखरूपाः, न्यूनताऽभावेन संक्लेशाभावात् । तथा अपरोपतापिन्यो वैचक्षण्यादिभावेन । तथा सुन्दरा अनुबन्धेनाऽत एव हेतोः । न चान्याः संपूर्ण उक्तलक्षणाभ्यो भोगक्रियाभ्यः । कुतः ? इत्याहतत्तखण्डनेन, संक्लेशादिभ्य उभयलोकापेक्षया भोगक्रियास्वरूपखण्डनेनेति
भावः ।
तपः श्रुतज्ञानधनास्तु साधवो न यान्ति कृच्छ्रे परमेऽपि विक्रियाम् ||१||" तथा " कपालमादाय विपन्नवाससा वरं द्विषद्वेश्मसमृद्धिरीक्षिता । विहाय लजां न तु धर्मवैश से सुरेन्द्रता (सा)र्थेऽपि समाहितं मनः ||२||” तथा-" पापं समाचरति वीतवृणो जघन्यः प्राप्यापदं सवृण एव विमध्यबुद्धिः । प्राणात्ययेऽपि न तु साधुजनः स्ववृत्तं वेलां समुद्र इव लङ्घयितुं समर्थः || ३||" इत्यलं प्रसङ्गेन । इति सूत्रार्थः ।
अधिकृतमेव स्पष्टयन्नाह— अनुस्रोतः सुखो लोकः उदकनिम्नाभिसर्पणवत् प्रत्यानुकुलविषयादिसुखो लोकः, कर्मगुरुत्वात् । प्रतिस्रोत एव तस्माद् विपरीतः आश्रवः इन्द्रियजयादिरूपः परमार्थपेशल: कायवाङ्मनोव्यापारः आश्रमो वा व्रतग्रहणादिरूपः सुविहितानां साधूनाम् । उभयफलमाह -- अनुस्रोतः संसारः शब्दादिविषयानुकूल्यं संसार एव, कारणे कार्योपचारात् यथा विषं मृत्युः, दधित्रपुषी प्रत्यक्षो ज्वरः । प्रतिस्रोतः उक्तलक्षणः तस्येति पञ्चम्यर्थे षष्ठी, 'सुपां सुपो भवन्ति' [ ] इति वचनात् तस्मात् संसारात् उत्तारः, उत्तरणमुत्तारः, हेतौ फ्लोपचारात् यथा आयुर्धृतम्, तन्दुलान् वर्षति पर्जन्य इति सूत्रार्थः । इति आचार्यश्री हरिभद्रसूरिविरचितायां दशवैकालिकटीकायाम् ॥
"
"
१ रूपं S ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org