SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ &&& & & &&& जEXXXXXXXXXXX8888888 &&& श्री गुरुस्तुतिः ॥ श्रीसद्गुरुदेवाय नमः । श्रीसद्गुरुः शरणम् ॥ पूज्यपाद अनन्तउपकारी पिताश्री तथा गुरुदेव मुनिराजश्री १००८ भुवनविजयजी महाराज ! बहुपुण्याश्रितं दत्त्वा दुर्लभं नरजन्म मे । लालन पालनां पुष्टिं कृत्वा वात्सल्यतस्तथा ॥१॥ वितीर्य धर्मसंस्कारानुत्तमांश्च गृहस्थितौ । भवद्भिः सुपितृत्वेन सुबहूपकृतोऽस्म्यहम् ॥२॥ ततो भवद्भिर्दीक्षित्वा भगवत्त्यागवर्त्मनि । अहमप्युद्ध तो मार्ग तमेवारोह्य पावनम् ॥ ३ ॥ ततः शास्त्रोक्तपद्धत्या नानादेशविहारतः । अचीकरन भवन्तो मां तीर्थयात्राः शुभावहाः ॥ ४ ॥ अनेकशास्त्राध्ययनं भवद्भिः कारितोऽस्म्यहम् । ज्ञान-चारित्रसंस्कारैरुत्तमैर्वासितोऽस्मि च ॥५॥ ममात्मश्रेयसे नित्यं भवद्भिश्चिन्तनं कृतम् । व्यापृताश्च ममोन्नत्यै सदा स्वाखिलशक्तयः ॥ ६ ॥ ममाविनयदोषाश्च सदा क्षान्ता दयालुभिः । इत्थं भवदनन्तोपकारैरुपकृतोऽस्म्यहम् ॥७॥ मोक्षाध्वसत्पान्थ ! मुनीन्द्र ! हे गुरो ! वचोऽतिगाः वः खलु मय्युपक्रियाः । असम्भवप्रत्युपकारसाधनाः स्मृत्वाहमद्यापि भवामि गद्गदः ॥८॥ हे सत्पूरुष ! सर्वदर्शनसमालोचप्रभाभासुरो विख्यातो नयचक्रमित्यभिधया ग्रन्थो महागौरवः । युष्मत्प्रेरणमार्गदर्शनबलात् सम्पादितोऽयं मया कृत्वा दर्शनशास्त्रबोधममलं सम्पद्यतां श्रेयसे ॥९॥ - तत्रभवदन्तेवासी शिशुर्जम्बूविजयः &&&&&&&& & & &&; Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001110
Book TitleDvadasharam Naychakram Part 3 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1988
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy