________________
७११
दिङ्गागप्रणीतापोहवादनिरासः] द्वादशारं नयचक्रम् । इत्थं च विधिप्रधानपर्युदासात्मकासच्छब्दार्थत्यागः प्रसज्यप्रतिषेधमात्रार्थत्वादन्याभावादर्थान्तरापोहस्वार्थाभिधानलक्षणाभ्युपगमत्यागः। - अर्थतेभ्य एव दोषेभ्योऽङ्गीकृतार्थान्तरवृत्तिरपोह इष्यते तत इदं विघटतेसदित्यसन्न भवतीति । प्रतिस्वसत् सर्वमपि घटादीति सदेवासदपि भवति इतरेतराभावादिभ्यः । असतापि हि तेन सता केनचिद् भवितव्यम् , प्रत्येकवृत्तित्वात् , यथा । घट इत्यघटो न भवति वृक्ष इत्यवृक्षो न भवति ।
विधिः, असच्छब्दश्च तदर्थः, इत्थं चोक्तन्यायेन असच्छब्दार्थो विधिप्रधानपर्युदासात्मकस्त्यक्तः स्यात् । स एव वृक्षो भवति सत्त्वात् , सतोऽन्यस्यासतोऽत्यन्ताभावात् प्रसज्यप्रतिषेधमात्रम[स]त् प्रसक्तं प्रतिषिद्धमित्येषोऽर्थः स्यात् । तस्मात् प्रसज्यप्रतिषेधमात्रार्थत्वात् ततश्च 'अयमस्मादन्यः' इत्यन्यस्याभावात् 'अन्यापोहः शब्दः' इत्यस्याभ्युपगमस्य त्यागः कृत इति दोषः स्यात् । किश्चान्यत् , तत एव 10 'अर्थान्तरापोहं हि स्वार्थ कुर्वती श्रुतिरभिधत्ते [
] इत्येतस्य 'अर्थान्तरापोहेन खार्थाभिधानम्' इति लक्षणस्य त्यागः कृतः स्यात् , एषोऽप्यभ्युपगमत्यागदोषोऽपर इति । एवं तावदनङ्गीकृतार्थान्तरवृत्तिः सदित्यसन्न भवतीति सामान्यशब्दार्थेऽन्यापोहो न युक्तो विधिरेव युक्त इति ।
अथैतेभ्य एवेत्यादि । अथ मा भूवन्नेते पर्युदासात्मकान्यशब्दार्थार्थान्तरापोहस्वार्थाभिधानलक्षणाभ्युपगमत्यागदोषा इति तेभ्य एव भयादङ्गीकृतार्थान्तरवृत्तिरपोह इष्यते तेत इदं विघटते सदि-15 त्यसन्न भवतीति । कस्मात् ? प्रतिस्वसत् सर्वमपि घटादीति, इतिशब्दस्य हेत्वर्थत्वात् प्रतिस्वं सर्वस्य सत्त्वात्, सर्वं हि प्रतिस्वं प्रत्यात्म प्रत्येकमात्मना सदेवासदपि भवति, न ह्यसन्न भवति । कुतः ? इतरेतराभावादिभ्यः, प्राक्प्रध्वंसेतरेतरसंयोगसमवायाप्रमाणसामर्थ्यादिभेदेन सदेवासद् भवति इति ४६-१३ "विस्तरत उत्पतद्भिरेव प्रतिपादितमस्माभिः- 'घटो घटात्मना सँन् भवति असन्नेव पटात्मना' इत्यादि ।
अत्र प्रयोगः-असतापि हि तेन सता केनचिद् भवितव्यमिति प्रतिज्ञा, यो भवति येन प्रकारेण 20 च भवति तेन द्विविधेनाप्यसता भवितव्यमित्यर्थः । कस्मात् ? प्रत्येकवृत्तित्वात् , प्रतिस्वमात्मरूपेण वर्तमानत्वात् , अथवा सत्त्वात् , यः सन् प्रत्येकं वा वर्तते सोऽसन्नपि केनचित् प्रकारेण दृष्टो भावः, यथा घटादन्यः पटो घटत्वेनासन्नेव पटत्वेन सन् दृष्ट इति तद्वदिदमपि असदेव सद् भवतीति, "तथा प्रत्येकवृत्तित्वादिति । एवमनङ्गीकृतार्थभेदत्वे सद् भवत्येवासत् । अभ्युपगतमपि चैतत् त्वयापि, विस्मृतमधुना मया स्मार्यमेतत्-यथा घट इत्यघटो न भवति वृक्ष इत्यवृक्षो न भवतीति एवमाद्यन्यापोह- 25 शब्दार्थवादित्वाद भवतः । एष सच्छब्दसामान्याथै उक्तः ।
१'घटादीति सदित्यसन्न न भवति' इत्यपि पाठः स्यात् । तुलना-पृ० ७१२ पं० १२॥ २ पृ. ५४७ पं० १,१२, टि. ९॥ ३ दृश्यतां पृ० ६५३ पं० १॥ ४°ब्दार्थान्तरा य०॥ ५ तत इदं विघटते २ तत इदं विघटते प्र०॥ ६ इशब्दस्य प्र० ॥ ७विस्तरस भा० । (विस्तरश?)॥ ८सन्न य०॥ ९ अथवा सत्त्वात् भा० प्रतौ नास्ति ॥ १० यथा भा०॥ ११ ( एवमङ्गीकृतार्थभेदत्वे ?)॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org