________________
१३६ न्यायागमानुसारिणीवृस्यलङ्कतस्य नयचक्रस्य टिप्पणेषु [हस्तवालप्रकरणांशः
पृ० ९३ पं० १. रज्ज्वां सर्प इति शान। आचार्यश्रीमल्लादिक्षमाश्रमणैरियं कारिका हैस्तवालप्रकरणादत्रोघृता प्रतीयते । अस्या भोटभाषानुवाद इत्थमुपलभ्यते
थग्' प ल नि' स्फुल्' स्त्रम् ऽज़िन् ॥ थग्' प. म्थो न दोन्' मेद् दो ॥
दे यि छ' म्थोङ् दे ल' यङ् ॥ स्फुल् शिन्' शेस्' प' ऽनुल् प यिन् ॥ १॥ B पृ० ३१३ पं० ९. प्रागनुमानं सप्रभेदं व्याख्याय तेषां यदेतत् । इत आरभ्य पृ० ३२३ पर्यन्तं वर्णित
१ सम्प्रति सवृत्तिकोऽयं ग्रन्थो मूलसंस्कृते नोपलभ्यते । चीनभोटभाषानुसारेण षट्कारिकात्मकोऽयं मूलग्रन्थः । वृत्तावपि सर्वाः कारिकाः प्रतीकरूपेणान्तर्गता एवेति मुद्रितेषु लिखितेषु च वृत्त्यनुवादेष्वपि षडेव कारिका लभ्यन्ते। 'बस्तन्' ऽग्युर् म्दो'वर्गे चपुटान्तर्गते ग्रन्थे तु सप्तम्यपि कारिका वृत्त्या सह उपलभ्यते तथापि सा पश्चात् प्रक्षिप्तेति भाति । P. Cordier's Catalogue du fonds Tibetain de la Bibliotheque Nationale, Troisieme partie, 1915 इत्यत्र छ [=१८ ]पुटवर्णनानुसारेण अस्य Tibetan index मध्ये 'मध्यमकहस्तवाल' इति नामदर्शनादयं मध्यमकसम्प्रदायस्य ग्रन्थः प्रतीयते । एतद्वन्थाध्ययनादपि प्रतीयत एवैतत् । [ 557-569 A. D वर्षमध्ये ] परमार्थविहितः 1703 A. D. वर्षे ] इत्सिंगविहितश्च चीनभाषानुवादः B. Nanjid's Catalogue अनुसारेण यथाक्रम Nos. 1255-6 मध्ये उपलभ्यते । अस्य द्वौ भोटभाषानुवादौ, [ 1000 A. D. निकटवर्षे ] एकः श्रद्धाकरवर्मरचितः, अपरस्तु दानशीलरचितः। उभयमपि परस्परं समानप्रायमेव । तत्र श्रद्धाकरवर्मकृतौ मूलवृत्त्यनुवादौ 'बस्तन्' ऽग्युर म्दो'वर्गे च [१७] पुटे यथाक्रमं स्तः। D. ed. No. 3844. पृ. २८२ B, No. 3845 पृ० २८२ B-२८४ A । N.ed. पृ० ३१२ B, पृ० ३१२ B-३१५A | P. ed. पृ. ३१९ A-B, पृ० ३१९ B-३२१ । दानशीलरचितौ तु छ [१८ ]पुटे स्तः--D. ed. No. 3848 पृ० २२ B, No. 3849 पृ० २२ B-२८ A. N. ed. पृ० २१ B, पृ० २१ B-२३ A | P.ed. पृ० २८ A-B, पृ. २४ B-२६ B। अस्य ग्रन्थस्य किमभिधानमासीदिति निश्चेतुं न पार्यते। भोटानुवादेषु P. ed. N. ed. मध्येऽनयोर्मूलवृत्त्योः 'हस्तवालप्रकरणकारिका, हस्तवालप्रकरणवृत्ति' इति च यथाक्रमं संस्कृतं नामोपलभ्यते । C.ed. D.ed. मध्ये तु चपुटे 'हस्तपास(श?)प्रकरण, हस्तपास(श?)प्रकरणवृत्ति' इति नाम दृश्यते, छपुटे तु 'हस्ताभावप्रकरण, हस्ताभावप्रकरणवृत्ति' इति दृश्यते । C. ed. D. ed. N. ed. P. ed. मध्ये चपुटे मूलनाम्नो वृत्तिनाम्नश्च यथाक्रमं 'छ शस्' क्यि' यन्' लग्' चेस्' ब्य' बडि रब्' तु. ब्येद्प ।, छ' शस्' क्यि' यन्' लग्' चेस्' ब्य' बडि रब् तु ब्येदू पडि ऽग्रेल्प ।' इति भोटानुवाद उपलभ्यते। छपुटे तु 'रब' तु ब्येद्' प' लग्' पडि छद् क्यि छिग्' ले ब्यस्' प ।, लग्' पडि छद् क्यि ऽगेल्प ।' इति भोटानुवादो दृश्यते। चीनभाषानुवादेषु संस्कृतनानो न निर्देशः, तथापि कथञ्चित् चीननामसाहाय्येन 'हस्तवालप्रकरण' इति माम सम्भाव्यते। अनयोः कः कर्ता इत्यत्रापि विप्रतिपत्तिः। दिमागग्रन्थानां चीनभाषानुवादेषु एतद्भाषानुवादस्यान्तर्गतत्वाच्चीनपरम्परानुसारेण उभयोरपि दियागो रचयिता। भोटग्रन्थेषु तु सर्वत्र उभयोरपि आर्यदेवः कर्ता इति स्पष्टमेव निर्दिष्ठम् । दिनागरचितमिदं हस्तवालप्रकरणं मनसि निधाय ‘अद्रेः शृङ्गं हरति पवनः किंखिदित्युन्मुखीभिर्दृष्टोत्साहश्चकितचकितं मुग्धसिद्धाङ्गनाभिः । स्थानादस्मात् सरसनिचुलादुत्पतोदङ्मुखः ख दिङ्गागानां पथि परिहरन् स्थूलहस्तावलेपान् ॥ १४ ॥' इत्येवं मेघदूते कालिदासेन अर्थान्तरं ध्वनयतोक्तमित्यपि केचिदैतिह्यान्वेषका विद्वांसस्तर्कयन्ति। अन्ये तु विद्वांस ईदृशमर्थान्तरकल्पनमत्र कालिदासवचने सर्वथैवानुचितमिति प्रतिपादयन्तीत्यपि ध्येयमत्र । उपरि निर्दिष्टाश्चीन-भोटानुवादाः काष्ठमुद्रित हस्तलिखितग्रन्थान्तर्गतपाठभेदैः सह महता परिश्रमेण सम्पाद्य Journal of the Royal Asiatic Society, London, April, 1918 इत्यत्र Dr. F.W. Thomas इत्येभिः प्रकाशिताः। तत्र च स्वीयः संस्कृतानुवाद आङ्ग्लभाषानुवादश्चापि तैोजितः । तत्र संस्कृते तैः प्रथमा कारिका इत्थमनूदिता-‘रज्वा सर्पमनस्कारो रजु दृष्ट्वा निरर्थकः । तदंशान् वीक्ष्य तत्रापि भ्रान्ता बुद्धिरहाविव ।'-पृ० २७७ । वस्तुतस्तु 'रज्वां सर्प इति ज्ञानं रजुदृष्टावनर्थकम् । तदंशदृष्टौ तत्रापि सर्पवद् रजुविभ्रमः।' इत्येवं यथा नयचक्रे [ पृ० ९३ पं० १] इयं कारिकोद्धृता तथैव मूलसंस्कृतग्रन्थ आसीदिति ध्येयम्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org