________________
११९
प्रत्यक्षपरिच्छेदः] भोटपरिशिष्टे प्रमाणसमुच्चयः। [न्यायसू० १।१।४ ] इति, अत्रापि विशेषणान्ययुक्तानि । यस्मात्
इन्द्रियार्थोद्भवे नास्ति व्यपदेश्यादिसम्भवः । विशेषणं व्यभिचारसम्भवे सति क्रियेत । इन्द्रियबुद्धौ व्यपदेश्यविषयत्वस्य न सम्भवः, अनुमानविषयत्वाद् व्यपदेश्यस्य । अव्यपदेश्यत्वेऽपि न व्यभिचारः, इन्द्रियबुद्धिः व्यपदेष्टुं न शक्यते । तस्माद् विशेषणवचनं नैव कर्तव्यम् । व्यभिचारिविषयत्वेऽपि न, मनोभ्रान्तिविषयत्वाद् व्यभिचारिणः।
x x x x x x x x x x x x x x x म बर्दङ् ब्चस्' प ऽजिन् प दङ् ॥ शेस्' प' ल्हग्' पऽम् मि थोव्' ऽग्युर् ॥ १७ ॥ 'र्तेन्' लस्' बङ्' पो' फ्यिर् मिन्' पर् ॥ [ ... 'देर् गसो ब ल सोग्स्" पल' रब्' तु" स्ब्योर् बडि फ्यिर् रो॥ ......"फ्यि' रोल्' तु' ऽफो' ब ब्देन् दु' छुग् न' या Psv ] युल्’ ल' ऽजिन्' पर्’ नुस्' म' यिन् ॥ ["ग्शन्’ दु' न' तॆन् सिप्रव्स् क्यङ् युल्’ ऽजिन्’ पर्' ऽग्युर् रो ॥ Psv ]
___10
व्यपदेश्यादिसम्भव इति । 'आदि'वचनाद् व्यभिचारित्वं व्यवसायात्मकत्वं च । यदि नास्ति, विशेषणायोगः कस्मादिति चेत्....."विशेषणमित्यादि । यदि अव्यपदेश्यादिस्वरूपमितरस्वरूपं च इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानं स्यात् ततो विशेषणत्रयमिदं धुज्येत । अथवात्र 'अव्यपदेश्यमव्यभिचारि' इति विशेषणद्वयं सम्भवत्येव, न व्यभिचरति । व्यवसायात्मकं न सम्भवत्येव । तदेव च विशेषणं भवति यत् तत्राश्रये भवति तत्रासत्त्वात् तत्र च व्यभिचरति यथा उत्पलनीलत्वादि। पृ० ४४B] न दयबदौ सदपीति यदा बहुव्रीहिपक्षस्तदेदमुच्यते । अनेन व्यपदेश्यत्वासम्भवेन अव्यपदेश्यत्वस्याव्यभिचारो दर्श्यते । कुत इत्याह - अनुमानविषयत्वादित्यादि । व्यपदेश्यं सामान्यम्, न तु वलक्षणम् तस्य पूर्वमदृष्टत्वात् । तच्च सामान्यमनुमानस्यैव विषयः, धूमादिभिः पूर्वदृष्टसाधारणस्याम्न्यादेरनुमानात् ; न प्रत्यक्षस्य, तस्यासाधारण विषयत्वात् । अथापि विषयोऽव्यपदेश्यो भवतु मा वा तथापि ज्ञानं व्यपदेश्यम् । अतो व्यपदेश्यत्वमस्ति, ततश्च व्यभिचारात् 'अव्यपदेश्यत्वं' विशेषणं युज्यते इति चेत्, अत्रापि तदेव ज्ञानं खरूपेण यदनिर्देश्य, तस्य अव्यपदेश्यत्वं युज्यते इत्याह-अव्यपदेश्यत्वेऽपि न व्यभिचार इति । कुत इत्याह-इन्द्रियबुद्धिरित्यादि । सर्व ज्ञानमव्यपदेश्यस्वरूपमेवेति अव्यपदेश्यत्वे व्यभिचारोऽपि नास्त्येव ।.... अनेन तत्पुरुषपक्षेऽपि दोष उक्तः [पृ. ४५A ] 1. व्यभिचारिविषयत्वेऽपि न सम्भव इत्यनुवर्तते । मनोभ्रान्तिविषयत्वादित्यादि । व्यभिचारः तथा असद्भावः । यथा अनेन उपलभ्यते तथा स नास्त्येव, यथा मरीचिकादिविषयः । स च यस्मिन् ज्ञाने स्वरूपेण भासते तदपेक्षया अव्यभिचारिभूत एव । यस्मिन् ज्ञानेऽतथारूपेण प्रतिभासते तदेव प्रति तस्य व्यभिचारित्वम् । मनोविज्ञानभ्रान्तौ च स तथा प्रतिभासते । तथाहि-अजलादिस्वरूपभूतेऽपि समुदाये जला दिस्वरूपाध्यवसायिनी मनोभ्रान्तिरुत्पद्यते । तस्मात् तत्कल्पितत्वात् तस्या एव स विषयः, न इन्द्रियज्ञानस्य । तस्मात् तद्वयवच्छेदार्थम् [ऽखुल्' प' मेद् प. स्मोस्' पर ब्यब' म' यिन्' नो VID] 'अव्यभिचारि'वचनं न कर्तव्यम् । इदं बहुव्रीहिमधिकृत्योक्तम् । यदा[पृ०४५ B] तदेव ज्ञानं स्वयमव्यभिचारि इति तत्पुरुषः परैराश्रीयते तदा इत्थं वक्तव्यम्-अव्यभिचारित्वे न व्यभिचार इति । इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानं न व्यभिचारि, मनोविज्ञानस्यैव व्यभिचारित्वात् । द्विचन्द्रादिज्ञानं 'सन्निकर्षोत्पन्न'वचनेनैव निराकृतम् । आचार्येणात्र तत्पुरुषपक्षे दोषो नोक्तो दिङ्मात्रदर्शनेनैव पूर्वानुसारेणावगम्यत इति कृत्वा [पृ० ४६ A]"विशाला।
१ अत्र Psv' अनुसारेण "इदमप्ययुक्तम् । इमानि विशेषणानि न युज्यन्ते” इति संस्कृतं स्यात् । २ "तथा चोक्तम् - इन्द्रियार्थोद्भवे नास्ति व्यपदेश्यादिसम्भवः ।"-प्र० वार्तिकालं० पृ. ३३८ । ३ Psv - VT अनुसारेणायमनुवादः। ४ “तथा चाह-मनोभ्रान्तिविषयत्वाद् व्यभिचारिणः ।"-प्र० वार्तिकालं० पृ. २५३, ३३८ । ५"तेन्' लस्' फियर' बङ् ऽफो मिन् फ्यिर"-Ps. Psv' । ६[
] एतादृशचिह्नान्तर्गतः पाठः PS मध्ये नास्येव, Psy मध्येऽपि गद्यरूपेणैवोपलभ्यते, तथापि न्यायवार्तिकतात्पर्यटीकया 'तचिकित्सादियोगतः सत्यपि च बहिर्भावे' इति कारिकांशस्य सूचितत्वादत्रास्माभिरुपन्यस्तः । Psy मध्ये कारिकांश एव भ्रान्त्या गद्यत्वेनानूदितो भाति । यतश्च PSv• मध्यात् पृथक्कृत्य P3 समुद्धतोऽत एव PS मध्येऽपि काचित् त्रुटिरत्रायातेति सम्भाव्यते। ७[ ] एत. चिह्नान्तर्गतः पाठः PSV मध्ये गद्यरूपेणैव वर्तते, तस्य च तत्वार्थराजवार्तिकानुसारेण 'अन्यथा अधिष्ठानपिधानेऽपि विषयग्रहणप्रसङ्गः' इत्येव संस्कृतं भवति तथापि न्यायवार्तिकतात्पर्यटीकायां 'यदि च स्यात् तदा पश्येदप्युन्मील्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org