________________
पृ० ५६ पं० १५.]
टिप्पणानि।
'अभूत्वा भावः' इति आविर्भावलक्षणम् , तदेव च कृतकत्वम् । 'भूत्वा अभावः' इति तिरोभावलक्षणम्, तदेव चानित्यत्वम् । तथा च 'नित्यः शब्दः, कृतकत्वात्, आकाशवत्' इत्यत्र अन्यपक्षादेः सत्त्वादविशेषकान्ते न दोष इत्याशक्कितुरभिप्रायः।
पृ० ५२ पं० १८. सपक्षः। दृश्यतां टिपृ०२८ पं० २९ । पृ० ५३ पं० १. लोकत्वापत्तेः । दृश्यतां पृ० ५४ पं० ८।
पृ० ५३ पं० ४. अनुकम्पितं...। “प्रागिवात् कः । अव्ययसर्वनाम्नामकच् प्राक टेः । कस्य च दः । अज्ञाते । कुत्सिते । । संज्ञायां कन् । अनुकम्पायाम् ।" इति पाणिनीयव्याकरणे ५।३१७०-७६ । एतदर्थः सिद्धान्तकौमुद्यादिव्याख्याभ्योऽवसेयः।
पृ० ५३ पं० ९. दृष्टान्तस्य । “साधनीयस्य अर्थस्य यावति शब्दसमूहे सिद्धिः परिसमाप्यते तस्य पञ्च भागाः प्रतिज्ञादयः समूहमपेक्ष्यावयवा उच्यन्ते । तेषु प्रमाणसमवायः । आगमः प्रतिज्ञा हेतुरनुमानम् उदाहरणं प्रत्यक्षम् उपमानमपनयः सर्वेषामेकार्थसमवाये सामर्थ्यप्रदर्शनं निगमनमिति । सोऽयं परमो न्यायः ।"-न्यायभा. J. १।१।१। ।
पृ० ५३ पं० १०. मापन्नम् । तस्माच्च लोकत्वम् , ह । अत्र मापन्नं तस्माच लोकत्वं दृ इति योजनीयम् । 10
पृ० ५३ पं०११. लौकिक... "लोकसामान्यमनतीता लौकिकाः, नैसर्गिक वैनयिकं बुद्धयतिशयमप्राप्ताः । तद्विपरीताः परीक्षकाः, तर्केण प्रमाणैरथै परीक्षितुमर्हन्तीति । यथा यमर्थ लौकिका बुध्यन्ते तथा परीक्षका अपि सोऽर्थो दृष्टान्तः । दृष्टान्तविरोधेन हि प्रतिपक्षाः प्रतिषेद्धव्या भवन्तीति, दृष्टान्तसमाधिना च स्वपक्षाः स्थापनीया भवन्तीति, अवयवेषु चोदाहरणाय कल्पत इति ।"-न्यायभा० १।१।२५ ।
पृ० ५४ पं० ६. पृथुकुक्ष्या । अत्र विकुक्ष्या इत्येव शुद्धः पाठः प्र०पाठानुसारी च । "केवलनाणित्ति अहं0 15 गाहा ॥ ८॥ २७ ॥ ७५० ॥.."इयाणि लक्खणेत्ति दारं । तं च चोइसविहं । नामस्थापने पूर्ववत् । दम्वलक्खण जहा अग्गिस्स उण्हता, णिबस्स तित्तता, खंडस्स मधुरता एवमादि । अहवा आपो द्रवाः, स्थैर्यवती च पृथिवी । सारिस्सलक्खणं यथा अस्मिन् देशे घटा ऊर्ध्वग्रीवा अधस्तात् परिमण्डला विकुक्षिणः तथान्येष्वपि देशेषु।"-आवश्यकचू० c.J. पृ० ३७४ ।
पृ० ५४ पं० ३०. अत्रापि...... । दृश्यतां टिपृ० २९ पं० १५।
पृ० ५४ पं० ११. ऊपरभू । “ग्रीष्मे मरीचयो भौमेनोष्मणा संसृष्टाः स्पन्दमाना दूरस्थस्य चक्षुषा सन्निकृष्यन्ते । 20 तवेदमिन्द्रियार्थसनिकर्षात् उदकम् इति ज्ञानमुत्पद्यते किं तत् प्रत्यक्षम्? इत्यत आह-अव्यभिचारीति ।"न्यायभा० J. १।१।४।
पृ० ५५ ५० १०. प्रागभिहित । दृश्यतां पृ० ४९ पं० ९।
पृ० ५५ ५० ११-१३. अचाक्षुष' कार्यत्वात् कारणतो विकारात् । एतानि सर्वाण्यपि P वैशेषिकसूत्राणि । दृश्यतां टिपृ० २०५० १२-१९, पृ० ८७ पं०१४-१५, टिपृ० ८पं० २२ ।
25 पृ० ५५ पं० २२. सदसतो । “मतिश्रुतावधयो विपर्ययश्च । १ । ३१ । सदसतोरविशेषाद् यदृच्छोपलब्धेन्मत्तवत् । १।३२।"-तत्त्वार्थसू० ।
पृ० ५६ पं० १५. स्वार्थ। “कुत्सिते।५।३ । ७४। इह कुत्सितकः अनुकम्पितकः इति स्वशब्देनोक्तत्वात तस्यार्थस्य प्रत्ययो न प्राप्नोति । नैष दोषः। कुत्सितस्यानुकम्पायामनुकम्पितस्य कुत्सायाम् । अथवा-स्वार्थमभिधाय..."-पा. म० भा० । “वृक्षद्रव्यं हि वृक्षत्वजातिद्वारेण शब्दः प्रकाशयति, ततो लिङ्ग संख्यां चेति शाब्दी प्रतीतिः क्रमत एव । 30 तदुक्तम्-स्वार्थमभिधाय । समवेतस्य तु वचने लिङ्ग संख्यां विभक्तीश्च ॥"-अष्टसह ० का० १६।
१ अस्य श्लोकद्वयस्य व्याख्या-"स्वशब्दोऽत्र आत्मीयवचनः, अर्थशब्दोऽभिधेयवचनः । स्खोऽर्थः खार्थः । स वानेक
तिगुणक्रियासम्बन्धखरूपलक्षणः गौः शक्तः पाचको राजपुरुषो डिस्थ इति । तं स्वार्थमभिधाय तेन स्वार्थेन समवेतं सम्बद्धं द्रव्यमाह शब्दो निरपेक्षः इत्यनेन चैतद् दर्शयति यथा द्रव्येऽभिधातव्ये स्वार्थोऽपेक्ष्यते न तथा स्वार्थेऽभिधातव्येऽर्थगतं निमित्तान्तरमपेक्ष्यते । द्रव्यशब्देन च 'इदं तत्' इति परामर्शयोग्यं वस्त्वभिधीयते । ..... 'समवेतस्य द्रव्यस्याभिधाने लिङ्गं वचनं विभक्तिं चाहेति सम्बन्धः । तान् विशेषानिति लिङ्गादीनामेव परामर्शः । लिङ्गं स्त्रीत्वादि, वचनं संख्या, विभक्तिः कारक कमोदि ।..." एतान् विशेषानभिधाय स्वाथोदिपञ्चकवृत्तं कृत्स्नमात्मानमपेक्षमाणः शब्दः प्रियकुत्सनादिषु विभक्त्यन्तः पुनः प्रवर्तते। 'पुनः शब्दः 'तु'शब्दस्यार्थे वर्तते, विभक्त्यन्तस्त्वित्यर्थः । ....कुत्सिततं यदा कुत्स्यते 'नास्य सम्यक्कुत्सितत्वम् इति तदा प्रत्ययः ।"-पा०म० भा० प्रदीप. ५। ३।७४ । अस्य पा०म० भा० प्रदीपस्य व्याख्या उड्योते विलोकनीया।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org