SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीसद्गुरुदेवाय नमः । श्रीसद्गुरुः शरणम् ॥ पूज्यपाद अनन्तउपकारी गुरुदेव मुनिराज श्री १००८ भुवनविजयजी महाराज ! बहुपुण्याश्रितं दत्त्वा दुर्लभं नरजन्म मे। लालनां पालनां पुष्टिं कृत्वा वात्सल्यतस्तथा ॥१॥ वितीर्य धर्मसंस्कारानुत्तमांश्च गृहस्थितौ ।। भवद्भिः सुपितृत्वेन सुबहूपकृतोऽस्म्यहम् ॥ २ ॥ ततो भवद्भिर्दीक्षित्वा भगवत्त्यागवर्त्मनि । अहमप्युद्धृतो मार्ग तमेवारोह्य पावनम् ॥ ३॥ ततः शास्त्रोक्तपद्धत्या नानादेशविहारतः । अचीकरन् भवन्तो मां तीर्थयात्राः शुभावहाः ॥ ४ ॥ अनेकशास्त्राध्ययनं भवद्भिः कारितोऽस्म्यहम् । ज्ञानचारित्रसंस्कारैरुत्तमैर्वासितोऽस्मि च ॥५॥ ममात्मश्रेयसे नित्यं भवद्भिश्चिन्तनं कृतम् । व्यापृताश्च ममोन्नत्यै सदा स्वाखिलशक्तयः ॥ ६ ॥ ममाविनयदोषाश्च सदा क्षान्ता दयालुभिः ।। इत्थं भवदनन्तोपकारैरुपकृतोऽस्म्यहम् ॥७॥ मोक्षाध्वसत्पान्थ ! मुनीन्द्र ! हे गुरो! वचोऽतिगा वः खलु मय्युपक्रियाः । असम्भवप्रत्युपकारसाधनाः __ स्मृत्वाहमद्यापि भवामि गद्गदः ॥८॥ हे सत्पुरुष ! सर्वदर्शनसमालोचप्रभाभासुरो विख्यातो नयचक्रमित्यभिधया ग्रन्थो महागौरवः । युष्मत्प्रेरणमार्गदर्शनबलात् सम्पादितोऽयं मया कृत्वा दर्शनशास्त्रबोधममलं सम्पद्यतां श्रेयसे ॥ ९॥ __ -- तत्रभवदन्तेवासी शिशुञ्जम्बूविजयः HasiKIKIKISISISTEHIKSIKKIMENSTRY Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001108
Book TitleDvadasharam Naychakram Part 1 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1966
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy