________________
५४७ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् परिमाणविशेषेण कालिकश्रुतं संख्यायत इति भावः । तत्र पर्यवाः पर्याया धर्मा इति यावत्, तद्रूपा सङ्ख्या पर्यवसङ्ख्या, सा च कालिकश्रुते अनन्तपर्यायात्मिका द्रष्टव्या, एकैकस्याप्यकाराद्यक्षरस्य तदभिधेयस्य च जीवादिवस्तुन: प्रत्येकमनन्तपर्यायत्वात् ।
एवमन्यत्रापि समासः कार्यः । नवरं सङ्खयेयान्यकाराद्यक्षराणि, याद्यक्षरसंयोगरूपा: 5 सङ्ख्येयाः सङ्घाताः, सुप्तिङन्तानि समयप्रसिद्धानि वा सङ्ख्येयानि पदानि, गाथादिचतुर्थांशरूपा: सङ्खयेया: पादाः, सङ्खयेया गाथाः, सङ्ख्येयाश्च श्लोकाः प्रतीता: एव, छन्दोविशेषरूपा: सङ्ख्येया वेष्टकाः । निक्षेपनियुक्त्युपोद्घातनियुक्तिसूत्रस्पर्शक नियुक्तिलक्षणा त्रिविधा नियुक्तिः, व्याख्योपायभूतानि
सत्पदप्ररूपणतादीन्युपक्रमादीनि वा सङ्ख्येयान्यनुयोगद्वाराणि, सङ्ख्येया उद्देशा:, 10 सङ्ख्येयान्यध्ययनानि, सङ्ख्येयाः श्रुतस्कन्धाः, सङ्ख्येयान्यङ्गानि, एषा
कालिकश्रुतपरिमाणसङ्ख्या । एवं दृष्टिवादेऽपि भावना कार्या, नवरं प्राभृतादय: पूर्वान्तर्गता: श्रुताधिकारविशेषाः । सेत्तमित्यादि निगमनद्वयम् ।
से किं तं जाणणासंखा इत्यादि, जाणणा ज्ञानम्, संख्यायते निश्चीयते वस्त्वनयेति सङ्ख्या, ज्ञानरूपा सङ्ख्या ज्ञानसङ्ख्या, का पुनरियम् ? उच्यते, यो 15 देवदत्तादिर्यच्छब्दादिकं जानाति स तज्जानाति, तच्च जानन्नसावभेदोपचाराद् ज्ञानसङ्ख्येत्युपस्कारः । शेष पाठसिद्धम् ।
[सू० ४९७] से किं तं गणणासंखा ? गणणासंखा एक्को गणणं न उवेति, दुप्पभितिसंखा । तंजहा-संखेजए असंखेजए अणंतए ।
[सू० ४९८] से किं तं संखेजए ? संखेजए तिविहे पण्णत्ते । 20 तंजहा-जहण्णए उक्कोसए अहण्णमणुक्कोसए।
[सू० ४९९] से किं तं असंखेजए ? असंखेजए तिविहे पण्णत्ते। तंजहा-परित्तासंखेजए जुत्तासंखेजए असंखेज्जासंखेजए ।
[सू० ५००] से किं तं परित्तासंखेजए ? परित्तासंखेजए तिविहे १. पि भावना कार्या खंसं०, जेसं१, जेसं२, मां० ॥ २. स्पर्शिक' जेसं१, जे२, खं० मा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org