________________
३९९ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम्
[हे० ३५८-३६२] अथ प्रमाणाङ्गुलं विवक्षुराह - से किं तं पमाणंगुले इत्यादि । सहस्रगुणितादुत्सेधाङ्गुलप्रमाणाज्जातं प्रमाणाङ्गुलम्, अथवा परमप्रकर्षरूपं प्रमाणं प्राप्तमगुलं प्रमाणागुलम्, नात: परं बृहत्तरमङ्गुलमस्तीति भावः । यदिवा
समस्तलोकव्यवहार-राज्यादिस्थितिप्रथमप्रणेतृत्वेन प्रमाणभूतोऽस्मिन्नवसर्पिणीकाले 5 तावद् युगादिदेवो भरतो वा तस्यागुलं प्रमाणाङ्गुलम् । एतच्च काकणीरत्नस्वरूपपरिज्ञानेन शिष्यव्युत्पत्तिलक्षणं गुणाधिक्यं पश्यस्तद्वारेण निरूपयितुमाहएगमेगस्स णं रण्णो इत्यादि, एकैकस्य राज्ञ: चतुरन्तचक्रवर्तिनोऽष्टसौवर्णिकं काकणीरत्नं षट्तलादिधर्मोपेतं प्रज्ञप्तम्, तस्यैकैका कोटिरुत्सेधागुलविष्कम्भा, तच्छ्रमणस्य भगवतो
महावीरस्या ङ्गुलम्, तत्सहस्रगुणं प्रमाणाङ्गुलं भवतीति समुदायार्थः । 10 तत्रान्यान्यकालोत्पन्नानामपि चक्रिणां काकणीरत्नतुल्यताप्रतिपादनार्थमेकैकग्रहणम् ।
निरुपचरितराजशब्दविषयज्ञापनार्थं राजग्रहणम् । दिक्त्रयभेदभिन्नसमुद्रत्रयहिमवत्पर्वतपर्यन्तसीमाचतुष्टयलक्षणा ये चत्वारोऽन्तास्ताँश्चतुरोऽपि चक्रेण वर्तयति पालयतीति चतुरन्तचक्रवर्ती, तस्य, परिपूर्णषट्खण्डभरतभोक्तुरित्यर्थः । चत्वारि
मधुरतृणफलान्येक: श्वेतसर्षपः, षोडश सर्षपा एकं धान्यमाषफलम्, द्वे धान्यमाषफले 15 एका गुञ्जा, पञ्च गुञ्जा एकः कर्ममाषकः, षोडश कर्ममाषका एक: सुवर्णः, एतैरष्टभिः
काकणीरत्नं निष्पद्यते । एतानि च मधुरतृणफलादीनि भरतचक्रवर्तिकालसम्भवीन्येव गृह्यन्ते, अन्यथा कालभेदेन तद्वैषम्यसम्भवे काकणीरत्नं सर्वचक्रिणां तुल्यं न स्यात्, तुल्यं चेष्यते तदिति, चत्वारि चतसृष्वपि दिक्षु द्वे तूर्ध्वाध इत्येवं षट् तलानि यत्र तत् षट्तलम्, अध उपरि पार्श्वतश्च प्रत्येकं चतसृणामम्रीणां भावात् द्वादश अम्रयः 20 कोटयो यत्र तद् द्वादशासिकम्, कर्णिका: कोणास्तेषां चाध उपरि च प्रत्येकं चतुर्णां सद्भावादष्टकर्णिकम्, अधिकरणिः सुवर्णकारोपकरणम्, तत्संस्थानेन संस्थितं तत्सदृशाकारम्, समचतुरस्रमिति यावत्, प्रज्ञप्तं प्ररूपितम् । तस्य काकणीरत्नस्यैकैका कोटिरुच्छ्याङ्गुलप्रमाणविष्कम्भा, द्वादशाप्यस्रय एकैकस्य उत्सेधाङ्गुलप्रमाणा
भवन्तीत्यर्थः, अस्य समचतुरस्रत्वादायामो विष्कम्भश्च प्रत्येकमुत्सेधाङ्गुलप्रमाण इत्युक्तं 25 भवति, यैव च कोटिरू/कृता आयामं प्रतिपद्यते सैव तिर्यग् व्यवस्थापिता विष्कम्भभाग्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org