________________
चतुर्थपरिशिष्टम् [ हे० १२३-१२४ ] १. स्यैकस्यैव तेना जे१ । स्यैकस्य तेना जेमू २, मां० ॥
[ हे० १३१-१३३ ] १. वधार खंमू० पा१, मां० । वे धर खंसं० ॥ २. भावेऽधर खंसं, जेमूर, पा१,२ ॥ ३. भावावकाश खंसं० ॥ ४. तत्रैव पा१ ॥ ५. विशिष्यते मां० विना ।। ६.समयावलिय मुहुत्ता दिवसमहोरत्त पक्ख मासा य ।संवच्छर युग पलिया सागर ओसप्पि परियट्टा ॥६६३॥
[अनुयोगद्वारे सू० ३६५, आवश्यकनि० ६६३, विशेषाव०भा० २०३६] "व्याख्या - तत्र परमनिकृष्टः काल: समयोऽभिधीयते, स च प्रवचनप्रतिपादितपट्टशाटिकापाटन
दृष्टान्तादवसेय:, आवलिका असङ्ख्येयसमयसमुदायलक्षणा, द्विघटिको मुहूर्त्तः, दिवसश्चतुष्प्रहरात्मक: यद्वा आकाशखण्डमादित्येन स्वभाभिर्व्याप्तं तद्दिवस इत्युच्यते, शेषं निशेति, अहोरात्रमष्टप्रहरात्मकमहर्निशमित्यर्थः, पक्ष: - पञ्चदशाहोरात्रात्मकः, मास: - तद्विगुणः, च: समुच्चये, संवत्सरो द्वादशमासात्मकः, युगं पञ्चसंवत्सरम्, असङ्ख्येययुगात्मकं पलितमिति पल्योपमम्, उत्तरपदलोपाद्, इत्थं सागरोपममपि, तत्र पल्योपमदशकोटीकोट्यात्मकं सागरमाख्यायते, उत्सर्पिणी सागरोपमदशकोटीको ट्यात्मिका, एवमवसर्पिण्यपि, परावर्तोऽनन्तोत्सर्पिण्यवसर्पिण्यात्मकः, स च द्रव्यादिभेदभिन्न: प्रवचनादवसेय इति गाथार्थः॥” - आवश्यकहारि०॥
"इह निर्विभाग: परमसूक्ष्मकालांश: समयो भण्यते । स च प्रवचनप्रतिपादितोत्पलपत्रशतपट्टसाटिकापाटन- दृष्टान्ताद् विशेषतः समवसेयः। असंख्येयसमयसमुदयसमितिसमागमनिष्पन्ना आवलिका। द्विघटिको मुहूर्त: । दिवसकरप्रभाप्रकाशितनभ:खण्डरूपः, चतुष्प्रहरात्मको वा दिवसः ।
___ (प्र० .... सूर्यकिरणस्पृष्टव्योमखण्डरूप:, चतुष्प्रहरात्मको वा दिवस:) । सूर्यकिरणास्पृष्टव्योमखण्डरूपा, चतुर्यामात्मिका वा रात्रिः, तदुभयं त्वहोरात्रम् । पञ्चदशाहोरात्राणि पक्ष: । पक्षद्वयात्मको मास: । द्वादशमासनिर्वृत्त: संवत्सरः । पञ्चसंवत्सरप्रमाणं युगम् । असंख्येययुगमानं पल्योपमम् । पल्योपमदशकोटीकोटिघटितं सागरोपमम्। दशसागरोपमकोटीकोट्यात्मिकोत्सर्पिणी। एवमवसर्पिण्यपि। अनन्ताभिरुत्सर्पिण्य-ऽवसर्पिणीभिः पुद्गलपरावर्तः। स च द्रव्यादिभेदभिन्नः प्रवचनादवसेयः ॥ इति नियुक्तिगाथार्थः ॥२०३६॥” इति विशेषाव० मलधारि० ॥
७. “नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात् । अपेक्षातश्च भावानां कादाचित्कत्वसम्भवः ॥३५॥" इति प्रमाणवार्तिकस्य परार्थानुमानपरिच्छेदे ।
"अहेतुत्वे च धूमस्य नित्यं सत्त्वमाकाशस्येव स्यात् । असत्त्वं शशविषाणादेरिव । अहेतोरन्यापेक्षणाभावात् । अपेक्षातश्च भावानां कादाचित्कत्वसम्भवः । ततो यद्यहेतुर्भाव: तदा नित्यं स्यात्, असदेव वा स्याद् हेत्वभावात्, तस्माद् धूमस्य कादाचित्कत्वदर्शनात् हेतुमत्त्वम् । अग्न्यन्वयव्यतिरेकानुविधानदर्शनात् तत्कार्यत्वञ्च । यश्च यस्य कार्य स तं न व्यभिचरति तदधीनस्वरूपत्वात् ॥३५॥” इति प्रमाणवार्तिकस्य मनोरथनन्दिविरचितायां वृत्तौ ॥ ७. पाश्चादा जेमू० । पश्चादा पा१ ॥
[ हे० १३४ ] १. जाताश्चतु जेसं० पा१ विना ॥ २. दृश्यतां हा० १३४ टि० २] ॥ ३. 'योर्दिष्टया पा१ । योद्दिष्टा पा२ ॥ ४. “गणनं सङ्ख्यानम्, तच्च पूर्वानुपूर्वी-पश्चानुपूर्वीअनानुपूर्वीभेदतस्त्रिविधम्, तत्र पूर्वानुपूर्व्या गण्यमानमिदमध्ययनं प्रथमम्, पश्चानुपूर्व्या षट्त्रिंशत्तमम्, अनानुपूर्व्या त्वस्यामेवैका-घकोत्तरषट्त्रिंशद्गच्छगतायां श्रेण्यामन्योन्याभ्यासतो द्विरूपोनसङ्ख्याभेदं भवति, उक्तं च - “एकाद्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org