________________
तृतीयं परिशिष्टम् राजपुत्रा विनीताः । सूरिणा तूक्तम्-साधवः । ततो विवादे सूरिणाऽभ्यधायि-युष्मदीय: सर्वोत्कृष्टविनयगुणो राजपुत्रः परीक्ष्यते, अस्मदीयस्त्वविनीतो भवतां य: प्रतिभाति स एव साधुः परीक्ष्यते । ततोऽभ्युपेतं राज्ञा। समादिष्टश्चातीवविनीततया प्रसिद्धो राजपुत्रः-कुतोमुखी गङ्गा वहति ? इति शोधय । तेनोक्तम्- किमिह शोधनीयम् ?, बालानामपि प्रतीतमेवेदम्-पूर्वाभिमुखी गङ्गः प्रवहति इति । राज्ञा प्रोक्तम्-किमित्यत्रापि वितण्डावाद करोषि ?, गत्वा निरीक्षस्व तावत् । ततो हृद्यसूयावान् बहिः संवृतिं कृत्वा महता कष्टेन तत: प्रदेशाद् निर्गतः। सिंहद्वारे च निर्गच्छन् पृष्टः केनापि मित्रेण-भद्र ! क्व गन्तव्यम् ? । तेनासूयया प्रोक्तम्-अरण्ये रोझानां लवणदानार्थम् । ततो मित्रेणोक्तम्-कोऽयं व्यतिकर: ? । राजपुत्रेण सर्वमपि राजादिष्टं निवेदितम् । मित्रेणोक्तम्यदि राज्ञो ग्रहः संलग्नः, तत् किं तवापि ?, गत्वा निवेदय-निरीक्षिता मया गङ्गा, पूर्वाभिमुखी वहतीति । तथैवानुष्ठितं राजपुत्रेण । प्रच्छन्नहेरिकेण च निवेदितं राज्ञस्तच्चेष्टितम् । ततो विलक्षण राज्ञा प्रोक्तम्-भव्यम्, साधुरपि परीक्ष्यतां तावत् । ततो यः कश्चिदविनीतो राज्ञा लक्षितस्तद्विषये परीक्षार्थं प्रतिपादितेन गुरुणा भणित: शिष्य:-गत्वा निरीक्षस्व, केन मुखेन गङ्गा वहति ? इति । तत: पूर्वाभिमुखी साऽत्र वहति, इति गुरवोऽपि विदन्त्येव, परं कारणेन केनाप्यत्र भवितव्यम् इति चेतसि निश्चित्य प्रोक्तं तेन-इच्छाम्यादेशम् इति । अभिधाय च निर्गतः । ततो गतश्च गङ्गायाम्, निरीक्षिता चासौ स्वयम्, पृष्ट्वा च परेभ्य:, शुष्कतृणादिवहनेन चान्वयव्यतिरेकाभ्यां तस्या: पूर्वाभिमुखवाहित्वं निश्चित्य निवेदितमागत्य गुरुभ्य:-इत्थमित्थं च निश्चिता मया पूर्वाभिमुखी वहति गङ्गा, तत्त्वं तु गुरवो विदन्ति । प्रच्छन्नहेरिकेण चास्यापि संबन्धिनी चेष्टा सर्वापि राज्ञे निवेदिता । ततश्चाभ्युपगतं सहर्षेण राज्ञा गुरुवचनमिति ॥९३१-९३४॥” – विशेषाव० मलधारि० ॥
[ हा० ९३-९५] १. 'प्राग वहतेष्ठक् ४।४।१, प्रकृष्ठे ठञ् ५।१।१०८१, प्रयोजनम् ५।१।१०९), ठस्येक: ७।३।५०।' इति पाणिनीयव्याकरणे ॥ २. च्यते वानौप ह० ॥
[ हा० ९६-९७] १. दिगम्बरपरंपरासम्मते सूत्रपाठेऽयं पाठः । सम्प्रति प्रसिद्ध श्वेताम्बराम्नाये तु “नैगम-संग्रह-व्यवहारर्जुसूत्रशब्दा नया: । आद्यशब्दौ द्वित्रिभेदौ”[ ११३४-३५] इति सूत्रपाठः ।
[ हा० ९८ ] १. भंगः स्तेना जे१ । भंगस्तेना जे२ पा० ॥ [ हा० ९९ ] १. पूर्वस्य इति पश्चा ह० ॥ [ हा० १०६ ] १. इत्था ह । तुलना - “मंगलसुयउवउत्तो आगमओ भावमंगलं होइ ।
___ नोआगमओ भावो सुविसुद्धो खाइयाईओ॥४९॥ मङ्गलं च तच्छ्रतं च मङ्गलशदार्थज्ञानमित्यर्थः, तस्मिन्नुपयुक्तो वक्ता इति गम्यते, आगमतो भावमङ्गलं भवति । अत्राह - ननु मङ्गलपदार्थज्ञानोपयोगमात्रेण कथं सर्वोऽपि वक्ता भावमङ्गलमुच्यते, तदुपयोगमात्रस्यैव तद्रूपताया युक्त्यसंगतत्वात् । न ह्यग्निज्ञानोपयुक्तो माणवकोऽग्निरेव भवितुमर्हति, दाहपाकादिक्रियाकरणप्रसङ्गादिति । अत्रोच्यते-उपयोग:, ज्ञानम्, संवेदनम्, प्रत्यय इति तावदनन्तरम्, अर्थाभिधानप्रत्ययाश्च लोके सर्वत्र तुल्यनामधेयाः, बाह्यः पृथुबुध्नोदराऽऽकारोऽर्थोऽपि घट उच्यते, तद्वाचकमभिधानमपि घटोऽभिधीयते, तज्ज्ञानरूप: प्रत्ययोऽपि घटो व्यपदिश्यत इत्यर्थः, तथा हि लोके वक्तारो भवन्ति - किमिदं पुरतो दृश्यते ? घट:, किमसौ वक्ति ? घटम्, किमस्य चेतसि स्फुरति ? घट: । इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org