________________
अनुयोगद्वारसूत्रम् [सू० १५८]
२१३
EAF शेषंभावितार्थं यावत्सेत्तंणेगमववहाराणंअणोवणिहियाखेत्ताणुपुव्वीसेयं नैगम-व्यवहारयोरनौपनिधिकीक्षेत्रानुपूर्वी।
[हे० १५८]अल्पबहुत्वद्वारे - इह द्रव्यगणनं द्रव्यार्थता, प्रदेशगणनं प्रदेशार्थता, उभयगणनं तूभयार्थता । तत्रानुपूर्त्या विशिष्टद्रव्यावगाहोपलक्षितास्त्र्यादिनभ:प्रदेशसमुदायास्तावद्र्व्याणि, समुदायारम्भकास्तु प्रदेशाः । अनानुपूर्त्यां त्वेकैकप्रदेशा- 5 वगाहिद्रव्योपलक्षिताः सकलनभ:प्रदेशा: प्रत्येकं द्रव्याणि, प्रदेशास्तु न संभवन्ति, एकैकप्रदेशद्रव्ये प्रदेशान्तरायोगात् । अवक्तव्यकेषु तु यावन्तो लोके द्विकयोगा: संभवन्ति तावन्तस्ते प्रत्येकं द्रव्याणि, तदारम्भकास्तु प्रदेशा इति। शेषा त्वत्र व्याख्या द्रव्यानुपूर्वीवत् कर्तव्येति।
नवरंसव्वत्थोवाइंणेगम-ववहाराणं अवत्तव्वगदव्वाइमित्यादि।अत्राह- ननु 10 यदा पूर्वोक्तयुक्त्या एकैको नभ:प्रदेशोऽने के षु द्विकसंयोगेषूपयुज्यते, तदा अनानुपूर्वी द्रव्येभ्योऽवक्तव्यकद्रव्याणामेव बाहुल्यमवगम्यते, यतः पूर्वोक्तायामपि पञ्चप्रदेशनभ:कल्पनायामवक्तव्यकद्रव्याणामेवाष्टसङ्ख्योपेतानां पञ्चसङ्ख्येभ्योऽनानुपूर्वीद्रव्येभ्यो बाहुल्यं दृष्टम्, तत् कथमत्र व्यत्यय:प्रतिपाद्यते? सत्यम्, अस्त्येतत् केवलं लोकमध्ये, लोकपर्यन्तवर्तिनिष्कुटगतास्तु ये कण्टकाकृतयो विश्रेण्या निर्गता एकाकिन: 15 प्रदेशास्ते विश्रेणिव्यवस्थितत्वादवक्तव्यकत्वायोग्या इत्यनानुपूर्वीसङ्ख्यायामेवान्तर्भवन्ति, अतो लोकमध्यगतां निष्कुटगतां च प्रस्तुतद्रव्यसङ्ख्यां मीलयित्वा यदा केवली चिन्तयति तदाऽवक्तव्यकद्रव्याण्येवस्तोकानि, अनानुपूर्वीद्रव्याणितुतेभ्यो विशेषाधिकतांप्रतिपद्यन्ते, अत्र निष्कुटस्थापना व अत्र विश्रेणिलिखितौ द्वौ अवक्तव्यकायोग्यौ द्रष्टव्याविति। एवम्भूताश्च किलामी सर्वतो लोकपर्यन्तेषु बहवः सन्तीत्यनानुपूर्वीणां बाहुल्यमित्यलं 20 विस्तरेण।
आनुपूर्वीद्रव्याणां तु तेभ्योऽसंख्यातगुणत्वं भावितमेव, शेषं द्रव्यानुपूर्व्यनुसारेण भावनीयम्।नवरमुभयार्थताविचारेआनुपूर्वीद्रव्याणिस्वद्रव्येभ्य:प्रदेशार्थतयाऽसङ्ख्येयगुणानि, कथम्? एकैकस्य तद्रव्यस्य त्र्यादिभिरसङ्ख्येयान्तैर्नभ:प्रदेशैरारब्धत्वात्, नभ:प्रदेशानांच
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org