________________
आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् १९२
नवरमाह चोदक:- अथ कस्मात् पुद्गलास्तिकाये एव त्रिविधा दर्शिता, न शेषास्तिकायेषु धर्मादिषु ? इति, अत्रोच्यते- असम्भवात्, असम्भवश्च धर्मा-ऽधर्मा-ऽऽकाशानां प्रत्येकमेकद्रव्यत्वाद्एकद्रव्येषु च पूर्वानुपूर्व्याद्ययोगात्, जीवास्तिकायेऽपि सर्वजीवानामेव
तुल्यप्रदेशत्वादेकायेकोत्तरवृद्धयभावादयोग इति, अद्धासमयस्यैकत्वादयोग इत्यलं 5 प्रसङ्गेन । प्रकृतं प्रस्तुमः । गता द्रव्यानुपूर्वी ।
[हे० १३५-१३८] तदेवमत्र पक्षे धर्मास्तिकायादीनि षडपि द्रव्याणि पूर्वानुपूर्व्यादित्वेनोदाहृतानि, साम्प्रतं त्वेकमेव पुद्गलास्तिकायमुदाहर्तुमाह- अहवेत्यादि। अत्र चौपनिधिक्या द्रव्यानु पूर्व्या ज्ञातमपि त्रैविध्यं यत् पुनरप्युपन्यस्तं तत् प्रमाणान्तरभणनप्रस्तावादेवेति मन्तव्यम्, अणंतगच्छगताए त्ति अत्रैकोत्तर10 वृद्धिमत्स्कन्धानामनन्तत्वादनन्तानांगच्छ:समुदायोऽनन्तगच्छ:, तंगताअनन्तगच्छगता,
तस्याम्, अत एव भङ्गा अत्रानन्ता एवावसेया इति । शेषभावना च सर्वा पूर्वोक्तानुसारतः स्वयमप्यवसेयेति।
__ आह- ननु यथैकः पुद्गलास्तिकायो निर्धार्य पुनरपि पूर्वानुपूर्व्यादित्वेनोदाहृतः एवं शेषाअपि प्रत्येक किमिति नोदाह्रियन्ते ? अत्रोच्यते-द्रव्याणांक्रम:परिपाट्यादिलक्षण: 15 पूर्वानुपूर्व्यादिविचार इह प्रक्रान्त:, स च द्रव्यबाहुल्ये सति संभवति, धर्मा-ऽधर्मा
ऽऽकाशास्तिकायेषु चपुद्गलास्तिकायवन्नास्ति प्रत्येकंद्रव्यबाहुल्यम् एकैकद्रव्यत्वात्तेषाम्, जीवास्तिकाये त्वनन्तजीवद्रव्यात्मकत्वादस्ति द्रव्यबाहुल्यम्, केवलं परमाणुद्विप्रदेशिकादिद्रव्याणामिवजीवद्रव्याणांपूर्वानुपूर्व्यादित्वनिबन्धन: प्रथम-पाश्चात्त्यादिभावो
नास्ति प्रत्येकमसंख्येयप्रदेशत्वेन सर्वेषां तुल्यप्रदेशत्वात् परमाणु-द्विप्रदेशिकादिद्रव्याणां 20 तु विषमप्रदेशत्वादिति, अद्धासमयस्यैकत्वादेव तदसम्भव इत्यलमतिचर्चितेन । तदेवं
समर्थिता औपनिधिकी द्रव्यानुपूर्वी, तत्समर्थने च समर्थिता प्रागुद्दिष्टा द्विप्रकाराऽपि द्रव्यानुपूर्वी, तत: सेत्तमित्यादीनि निगमनानि, द्रव्यानुपूर्वी समाप्ता।।
[सू० १३९] से किं तं खेत्ताणुपुव्वी ? खेत्ताणुपुव्वी दुविहा पण्णत्ता । तंजहा- ओवणिहिया य अणोवणिहिया य।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org