________________
अनुयोगद्वारसूत्रम् [सू० २४-२७]
७५
से किं तमित्यादि, पूर्वाह्ने भारतम्, अपराह्ने रामायणम्, तद्वाचन(क)-श्रोतॄणां पत्रकपरावर्त्तन-संयतगात्रादिक्रियायोगे सति तदुपयोगभावतो ज्ञान-क्रियोभयपरिणामसद्भावादित्यभिप्राय: । सेत्तमित्यादि निगमनम्।
से किं तमित्यादि गतार्थं यावद् इज्जंजलीत्यादि, इज्जांज(ज्याञ्ज?)लि-होमजपोन्दुरुक्ख-नमस्कारादीनि श्रद्धानभावयुक्तत्वाद् भावावश्यकानि कुर्वन्ति । तत्र 5 इज्याञ्जलि: यागाञ्जलिरुच्यते, स च यागदेवताविषयः, मातुर्वाऽञ्जलिरिज्याञ्जलि: मातृनमस्कारविधाविति भावः। होमोऽग्निहवनक्रिया। जपो मन्त्रादिन्यास:। उन्दुरुक्खं ति देशीवचनं वृषभगर्जितकरणाद्यर्थ इति । अन्ये तु व्याचक्षते-उन्दुं मुखं, तेण रुक्खं ति सद्दकरणं, तं पि वसभढेक्कियादि चेव घेप्पति । नमस्कारः प्रतीतः, यथा 'नमो भगवते दिवसनाथाय' । आदिशब्दात् स्तवादिपरिग्रहः । सेत्तमित्यादि निगमनम्। 10
[हे० २४-२७] तत्राऽऽद्यभेदनिरूपणार्थमाह - से किं तमित्यादि । अथ किं तदागमतो भावावश्यकम् ? अत्राह - आगमओ भावावस्सयं जाणए इत्यादि, ज्ञायक उपयुक्त आगमतो भावावश्यकम् । इदमुक्तं भवति - आवश्यकपदार्थज्ञस्तजनितसंवेगेन विशुद्धयमानपरिणामस्तत्रैवोपयुक्तः साध्वादिरागमतो भावावश्यकम्, आवश्यकार्थोपयोगलक्षणस्याऽऽगमस्यात्र सद्भावात्। भावावश्यकता चात्राऽऽवश्यकोपयोगपरिणामस्य 15 सद्भावात्, भावमाश्रित्य आवश्यकमितिव्युत्पत्ते:, अथवाऽऽवश्यकोपयोगपरिणामानन्यत्वात् साध्वादिरपिभावः, ततश्चभावश्चासावावश्यकंचेति व्युत्पत्तेरप्यसौ मन्तव्येति।सेतमित्यादि निगमनम्।
अथ भाववश्यकद्वितीयभेदनिरूपणार्थमाह - से किं तमित्यादि । अथ किं तन्नोआगमतो भावावश्यकम् ? अत्राऽऽह - नोआगमतो भावावश्यकं त्रिविधं 20 प्रज्ञप्तम्। तद्यथा - लौकिकं कुप्रावचनिकं लोकोत्तरिकं च।।
तत्र प्रथमभेदनिर्णयार्थमाह - से किं तं लोइयमित्यादि, अथ किं तल्लौकिकं भावावश्यकमिति ? अत्राह - लोइयं भावावस्सयं पुव्वण्हे इत्यादि । लोके भवं लौकिकम्। यदिदं लोकः पूर्वाह्ने भारतमपराह्ने रामायणं वाचयतिशृणोति वा तल्लौकिकम्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org