SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रम् [सू०१०] २९ अज्जीवेसु वि केसु यि आवासं भणति एगदव्वं तु। जह अच्चित्तदुममिणं भणंति सप्पस्स आवासं ॥२॥ जीवाण बहूण जहा भणंति अगणिं तु मूसगावासं। अज्जीवा वि हु बहवो जह आवासंतु सउणिस्स ॥३॥ उभयंजीवाजीवा तण्णिप्फण्णं भणंति आवासं। जह राईणावासं देवावासं विमाणं वा॥४॥ समुदाएणुभयाणं कप्पावासंभणंति इंदस्स। णगरनिवासावासं गामावासंच इच्चादि।५।।[ ] [हे० १०] नामावश्यकस्वरूपनिरूपणार्थं सूत्रकार एवाह - से किं तं नामावस्सयमित्यादि। अथ किं तन्नामावश्यकम् इति प्रश्ने सत्याह- नामावस्सयं जस्स 10 णमित्यादि, अत्र द्विकलक्षणेनाङ्केन सूचितं द्वितीयमपि नामावस्सयं ति पदं द्रष्टव्यम्, एवमन्यत्रापि यथासम्भवमभ्यूह्यम्, णमिति वाक्यालङ्कारे, यस्य वस्तुनो जीवस्यवाअजीवस्य वा जीवानां वाऽजीवानां वा तदुभयस्य वा तदुभयानां वा आवश्यकमिति यन्नाम क्रियते तन्नामावश्यकमित्यादिपदेन सम्बन्धः, नाम च तदावश्यकं चेति व्युत्पत्तेः, अथवा यस्य जीवा-ऽजीवादिवस्तुन:आवश्यकमिति नाम क्रियते तदेवजीवादिवस्तुनामावश्यकम्, नाम्ना 15 नाममात्रेणावश्यकं नामावश्यकमिति व्युत्पत्तेः, वाशब्दा: पक्षान्तरसूचका इति समुदायार्थः। तत्र जीवस्य कथमावश्यकमिति नाम सम्भवतीति, उच्यते- यथा लोके जीवस्य स्वपुत्रादेः कश्चित् सीहको देवदत्त इत्यादिनाम करोति तथा कश्चित्स्वाभिप्रायवशादावश्यकमित्यपिनाम करोति।अजीवस्य कथमितिचेत्, उच्यते- इहावश्यका-ऽऽवासकशब्दयोरेकार्थताप्रागुक्ता, ततश्चोर्ध्वशुष्कोऽचित्तो बहुकोटराकीर्णो वृक्षोऽन्यो वा तथाविधः कश्चित् पदार्थविशेष: 20 सादेरावासोऽयमिति लौकिकैर्व्यपदिश्यत एव, सच वृक्षादिर्यद्यप्यनन्तैः परमाणुलक्षणैरजीवद्रव्यैर्निष्पन्नस्तथाऽप्येकस्कन्धपरिणतिमाश्रित्य एकाजीवत्वेन विवक्षित इति स्वार्थिककप्रत्ययोपादानादेकाजीवस्यावासकनाम सिद्धम्, जीवानामपिबहूनामावासकनाम दृश्यते, यथा इष्टकापाकाद्यग्निर्मूषकावास इत्युच्यते, तत्र ह्यग्नौ किल मूषिका: संमूर्च्छन्ति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy