________________
७२
आचार्यधर्मकीर्तिकृतं . [पृ. २२३-२२९ यद्यपि भावाभाववचनमात्रेण तयोः साधनप्रमाणवृत्तिशक्षिप्यते अन्यथा तयोरेव सत्ताऽप्रसिद्धः, ज्ञानसत्तानिबन्धत्वात् ज्ञेयसत्ताव्यवस्थायाः । सर्वत्र ज्ञेयसत्ताव्यवस्थैव तत्साधनं प्रमाणमाकर्षति; परार्थत्वाच्च शास्त्रप्रणयनस्य त्रिरूपं लिङ्गं संवादकमर्थस्येति तद्रूपमप्रतिपत्तॄणां ततः प्रवृतिर्न भवति, अज्ञातस्य ज्ञापकस्य प्रवर्तकत्वाभावाद् इति परोपलक्षणत्वादेव प्रवर्तके ज्ञानं सिद्धम् ; तथापि तौ एव विशिष्टौ भावाभावौ केचिद् 5 दर्शनादर्शनमात्रेण व्यवस्थापयन्ति इति तेषां निषेधार्थोऽयं निश्चितशब्दः प्रयुक्तः । सतोरपि भावाभावयोरन्वयव्यतिरेकयोः संशयात् । तस्मात् प्रतिबंधप्रसाधकप्रमाणवृत्त्यैव भावाभावौ सिध्यतः इति विप्रतिपत्तिनिरासार्थमस्माभिनिश्चितग्रहणं कृतम् ।
यतोऽपि त्रैरूप्यवचनमात्रेण तत्साधनप्रमाणाक्षेपतः तेनैवावगतत्वात् न ज्ञानं पृथगतः रूपान्तरं भवति । उपनयार्थवत् [ T. 375b ] पक्षधर्मत्वात् ।
10 १अन्वयव्यतिरेकयोरपि हन्त न पृथक्त्वम् । एकस्य प्रयोगादुभयगतेरित चेत् । न । हेतोः सपक्षासपक्षयोः भावाभावौ न परस्परमाक्षिपतः । एकं वाक्यमुभयं गमयतीति उच्यते नैकोऽर्थः स्वभावो द्वितीयस्येति । ननु · तत्रैव भावे ' तदर्थतया — तदभावेऽभावो' गम्यते; ' अतद्भावेऽवश्यमभावे ' च ' तद्भावे भावः ' इति परस्परान्तर्भावः । वचनमेतत् सामर्थ्यादुभयमाक्षिपति । एकस्यापि नियमख्यापकस्य द्वितीयाक्षेपनान्तरीयकत्वात् । 15 न च तावता उभयोरेकस्वभावता । पृथगभिधानं तु प्रयोगनियमार्थम् । न पुनः केवलौ भावाभावौ परस्परमाक्षिपतः । नियमवन्तौ च न केवलौ, नियमस्य उभयरूपत्वात् । .. तस्माद् यदाऽन्वयव्यतिरेको भावाभावावभिप्रेतौ तदा तौ भिन्नरूपावेव । नैवं ज्ञानम्, परोपलक्षणशास्त्रागृहीतज्ञानात् त्रैलक्षणादव्यतिरेकादिति न लक्षणान्तरम् । तस्मान्न हेतुः षड्लक्षणः ।
20 । समाप्तं हेतुबिन्दु नाम प्रकरणम् आचार्यधर्मकीर्तिकृतम् ।
.
१. पृ. २२६ पं. ७६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org