________________
पृ. १७२-१८४]
हेतुबिन्दुप्रकरणम् । पलभ्यमाने नियमेन [T. 358 a] यस्योपलब्धिः स तत्संसृष्टः, एकज्ञानसंसर्गात् । 'तयोः सतो करूपनियता प्रतिपत्तिरसम्भवात् । तस्माद् योग्यतारूपं परस्परापेक्षमेव अन्यत्वमिहाभिप्रेतम् , प्रत्यासत्तेराश्रयणात् । ...
स केवलः तदपेक्षया तदन्यश्चेदुच्यते तदा तज्ज्ञानं तत्स्वभावो वा ज्ञातृज्ञेयधर्म5 लक्षणाऽनुपलब्धिः । सा अभावम्, अभावव्यवहारं वा साधयति ।।
कथमन्यभावस्तदभावो येन भावरूपानुपलब्धिरभावमभावव्यवहारं वा साधयेद् इति चेत् । उक्तमत्र यथा पर्युदासवृत्त्या अपेक्षातः तद्विविक्तोऽर्थस्तज्ज्ञानं वाऽभावोऽनुपलब्धिश्चीच्यत इति । न प्रतिषेधमात्रम् , तस्य साधनासिद्धेर भावव्यवहारासिद्विप्रसङ्गात् । तस्या
संसृष्टरूपस्य भावसिद्धिरेव अपरस्याभावसिद्धिरिति अन्यभावोऽपि तदभाव इति 10 व्यपदिश्यते । अन्यभावलक्षणोऽभावः स्वयं प्रमाणसिद्धः सन् अभावव्यवहारं साधयेत् ,
तसिद्धिसिद्धो वेति न कश्चिद्विशेषो येनानुपलब्ध्याऽभावव्यवहारसिद्धेविरोधः स्यात् । ३स एवं अन्यभावस्तद्विषया चोपलब्धिरमावस्य किं न साधनमिष्यते ? किं पुनरभावस्य सिद्धिरेव तदभावसिद्धिः ? [T. 368 b] इति चेत् । अपृथसिद्धान्यभावात् ,
सम्बन्धाभावाच्च न लिङ्गलिङ्गिता । 15 अन्यभावस्तावन्न साधनम्-यत्सिद्धौ यस्य न सिद्धिः तत् तस्य लिङ्गं भवति ।
धूमाग्निवदिति । अन्यभावसिद्धथैव तदभावः प्रसिध्यति, तस्य तदन्यासंसृष्टरूपस्य तत्त्वव्यवस्थापकप्रमाणत एव सिद्धेः । ..
सम्बन्धाभावाच्च । तलिङ्गत्वे तत्र सम्बन्धः काश्चत् स्यात् । तच्च तस्य एकार्थसमवायः यथा कृतकत्वस्यानित्यत्वेन धूमलक्षणे एकस्मिन्नर्थे समवायः, अधाराधेयभावो 20 वा जन्यजनकभावो वा । नैवं कश्चिद् भावाभावयोः सम्बन्धः येनास्यान्यभावः साधनं स्यात् । ...
.. ...... . _अस्ति विषयविषयिभावः, शब्दार्थसम्बन्धवदिति चेत् । शब्दार्थयोः तत्प्रतिपादनाभिप्राये सति तत्प्रयोगात्- कार्यकारणलक्षणोऽविनामावलक्षणो वा सम्बन्धः स्यात् । अयं
चात्र न सम्भवति, यतः कथं विषयविषयिभावः स्यात् । सिद्ध हि तदुभयोः साध्य25 साधनभावे तन्मुखेन विषयविषयिभावः स्यात् । स एव चासति सम्बन्धे न सिध्यति । अन्यथेतरेतराश्रयमिदं स्यात् ।
१.पृ० १९२. पं० २२॥ २. पृ० १७८.५० १३. ३. पृ० १००. पं. १७.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org