________________
'पृ. १४१-१५८]
हेतुबिन्दुप्रकरणम् । नेदं विकल्पद्वयमतिकामति-किं नित्यो भाव उतानित्यः । प्राङ् नित्यो भूत्वा .. पश्चादनित्यो भवतीति च ब्रुवाणो नित्यानित्यस्वभावभेदम् भावद्वयमाह । नित्यस्वभावस्य
नाशं बुवाणः सर्वदैव नाशं प्राह । अन्यथा सर्वदैवानाशमिति विनाशहेतुरसमर्थ एव । .. न प्राग् नित्यो भूत्वा पश्चादनित्यः स्याद् , [T. 366a] एक स्वभावत्वात् । स 5 तर्हि भावः विनाशमनाविशन् कथं नष्टो नाम ? नित्यस्वभाव-विनाशयोरपरस्पररूपत्वात् । यत एवं यदि अवश्यंभावी विनाश इष्यते तदा तेन विनाशस्वभावेन भवितव्यम् तथापि विनाशहेतुः व्यर्थ इत्युक्तम् ।
तस्माद् विनाशं प्रत्यनपेक्षो भावः तद्भावनियतः । ततो यः सन् स विनाशी । नश्वरतायाः निवृत्तौ सत्त्वनिवृत्तिरिति अन्वयव्यतिरेकसिद्धिः । 10 स्वभावतो नश्वरत्वेपि कश्चिद् अतत्स्वभावोपि स्यात् । न हि सर्वः सर्वस्य स्वभाव
इति न तन्निबन्धनान्वयव्यतिरेकसिद्धिरिति चेत् । न । अक्षणिकत्वेऽवस्तुत्वप्रसंगात् । १शक्तिर्हि भावलक्षणम् । सर्वशक्तिविरहः पुनरभावलक्षणम् । न चैवाक्षणिकस्य क्वचित् कदाचित् शक्तिरस्ति, क्रमयोगपद्याभ्यां कार्यक्रियाशक्तिविरहात् । इत्थं च यत् सत् तत् क्षणिकमेवेति व्याप्तिसिद्धिः ।
[३. कार्यहेतुनिरूपणम् । ] अर्थान्तरे गम्ये कार्य हेतुः, अव्यभिचारात् । २कार्यकारणभावेन गमकत्वे सर्वथा गम्यगमकभावः स्यात्, सर्वथा जन्यजनकभावात् । न सर्वथा [ T. 366b ] जन्यजनकभावः । तदभावे भवतः तदुत्पत्तिनियमाभावात् । तस्मात् कार्य स्वभावैर्यावद्भिर
विनाभावि कारणे तेषां स हेतुः । तत्कार्यत्वनियमात् । तैरेव च धमैर्ये तैर्विना न 20 भवन्ति । अंशेन जन्यजनकभावप्रसंग इति चेत् । न। तज्जन्यविशेषग्रहणे - भिमतत्वात् । अविशिष्ट सामान्यविवक्षायां व्यभिचार इति गमकत्वं नेष्यते ।
कस्यचित् कदाचित् कुतश्चिद्भावेऽपि सर्वस्तादृशस्तथाविधजन्मेति कुतः , तथा च नान्वयव्यतिरेको इति चेत् । न । अतद्भाविनम्तस्य सकृदपि ततोऽभावात । परस्परापेक्षया
जन्यजनकस्वभावलक्षणे कार्यकारणे । तत्र यदि धूमोऽग्न्यादिसामग्या अन्यतोऽपि भवेत् 25 तदा तस्य तज्जन्यस्वभावो न भवतीति सकृदपि ततो न भवेत् । अर्थान्तरवत् । । नापि सामग्री तं जनयेत, अतज्जननस्वभावत्वात् । सामयन्तरवत् । न च धमस्य .
१. उत्सवा० पृ. ५, ९. २. कर्ण० पृ. २६-२८।।
३. न्यायवि. वि. भाग १, पृ.१५४ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org