________________
हेतुबिन्दुप्रकरणम् । वहनादिभावेऽपि ओदनजन्म स्यात् । तथा, प्रभास्वरादपवरकं प्रविष्टस्य यदीन्द्रियं स्वोपकारिभ्योऽतिशयं क्रमेण न प्रतिपधेत तदा प्रागिवार्थप्नतिपत्तिं नैव जनयेत्।
अक्षेपकारिषु इन्द्रियादिषु न विशेषोत्पत्तिः परस्परतः संभवति । तत्र यथास्वं प्रत्ययैः परस्परोपसर्पणाद्याश्रथैर्ये योग्यदेशा[ T. 364a ]यवस्था जातास्ते सहस्वभावनिष्पत्त्या 5 ज्ञानहेतुतां प्रतिपद्यन्ते इति एकार्थक्रियैव सहकारित्वम् ।
यत्र तु सहकारिणः प्रत्ययाः विशेषमुत्पादयन्ति तत्र हेतुसन्तानापेक्षया स्वभावान्तरस्य प्रतिलम्भः । तत्र स्वरसतः हेतुप्रत्ययानां पूर्वोपनिपातक्षणानां निवृत्तौ तेभ्य एव विशिष्टक्षणोत्पादाद्विशेषोत्पत्तिरिति कार्योत्पादानुगुणविशिष्टस्य क्षणस्योत्पत्तिक्रमेण यावदत्यन्ताति
शयवतोऽन्त्यकारणकलापात् कार्योत्पत्तिः । 10 सहकारिणः समुत्पन्नविशेषात् कारणात् कार्योत्पत्तौ तस्यैव विशेषस्य उत्पत्तिर्न युक्ता ।
अविशिष्टाद् विशेषोत्पत्तौ कार्यस्यापि स्यात् । ततश्च परस्परतो विशेषोत्पादानपेक्षिण एव सहकारिणः कार्य कुरिन् । तेनाक्षणिकानामपि सहकारिसापेक्षाणां कारणता स्यात्, अपेक्षणीयेभ्यः स्वभावातिशयोत्पत्तिश्च न स्यात् । .
अथ सहकारिणा कार्योत्पादानुगुणविशेषजननाय कृतविशेष एव उपतिष्ठेत । एवं 15 सत्यनवस्था स्यात् । न च सहकारिणः परस्परं कार्योत्पादानुगुणविशेषोत्पादने नित्यं
योग्यावस्थाः, येन नित्यानुषक्त एषां विशेषः स्यात् । तदुपायापाययोः कार्यस्योत्पत्त्यनुत्पतिदर्शनात् । तस्मान्न सहकारिभ्यः कार्योत्पादनानुगुणो विशेष [T 364 b] उत्पद्यते ।
नास्माकं पुनः पुनरभिधानपि कश्चिदुद्वेगो भवति यद्येवं लोकस्य न्यायप्रतीतिर्भवति । 20 हन्त तर्हि उच्यताम् । न विशेषोत्पादनात् सहकारिणां सहकारित्वं परमार्थतः संभवति ।।
यतः तदभावात् विशेषे कर्तव्ये सहकारिताविरंहः स्यात् । ___ अथ कथं एकार्थक्रियापि भवेत ? यदि पुनः परस्परतो विशेषरहितानामपि सा स्यात् , पृथगपि सा भवेत् । तथा च, तस्माद्विशेषाद्भवनशीलं कार्यमपि केवलात् स्यादिति चेत् । अत्रोक्तमुत्तरम् प्रतिक्षणमपरापरैः प्रत्ययैः यथा भावसन्ताने विशेषस्यो25 सक्तिः । योग्यदेशताद्यवस्थाभेदाः कार्यकरणशीलाः सर्वदा न भवन्तीति कथमेषा
१. पृ. १३४ पं० १९ । २. comp पृ० १३४ पं० ४ । ३. पु. १३२ पं."
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org