________________
आचार्यधर्मकीर्तिकृतं
[पृ. ७०-4 एतेनोपनयनिगमनादिकमपि प्रत्युक्तम् । एतावतैव साध्यप्रतीतेर्भावात् । 'डिण्डिकरागं परित्यज्याक्षिणी निमील्य चिन्तय तावत् किमियता प्रतीतिः स्यान्नवेति । भावे किं प्रपञ्चमालया ? [ T. 359a ] । इति इयानेव साधनवाक्ये प्रयोगो ज्यायान् ।
अत्र 'पुर्वं हेतुः प्रयोक्तव्यः पश्चाद् दृष्टान्तः' इति क्रमनियमोऽपि न कश्चित् । तस्य कथमपि गमकत्वात् ।
सम्बन्धवचनेपि नार्थभेदोपि कश्चित् । उभयथा धर्मभेदेपि तद्भावस्यैव ख्यापनात् । नहि अतत्स्वभावस्य भावे एकान्तेनान्यस्य भावः, तन्निवृत्तौ वा निवृत्तिः । कृतकत्वस्य प्रयत्नानन्तरीय कत्वमन्तरेणापि भावात् । कार्यस्याभावेपि तन्निवृत्तेरभावात् । यथाऽनयोरेव कृतकत्वप्रयत्नानन्तरीयकत्वयोर्विपर्ययेण नैकनिवृत्तौ अन्यनिवृत्तिः ।। - तस्मादन्वयव्यतिरेकयोर्यथालक्षणमेकोऽपि प्रयुक्तो द्वितीयमाक्षिपतीति नानयोरर्थतः 1c कश्चित् भेदोऽन्यत्र प्रयोगभेदात् । इति नैकत्र साधनवाक्ये द्वयोः प्रयोगः, वैयर्थ्यात्। तत्स्वभावतयाऽन्वयसिद्धौ तदभावेऽभावोपि सिद्धयति एव । तथासिद्धौ च अन्वयस्यापि सिद्धेरिति । .. तदभाव एव हेतोरभावख्यातियथा स्यात् नान्यत्र विपक्षे विरुद्ध वा इति नियमख्यापनार्थोपि व्यतिरेकप्रयोगो न युक्तः, अन्यविरुद्धयोरपि विपक्षत्वात् । .. . 15
कथमिदम् अभ्युपेयते येन अन्वयव्यतिरेकयोः संम्भवे विनाशस्वभावतेति ? विनाशहेस्वयोगात् । स्वभावत एव भावा नश्वराः नैषां स्वहेतुभ्यो निष्पन्नानामन्यतो विनाशोत्पत्तिः । तत्यासामर्थ्यात् । [ T. 359b ] नहि विनाशहेतुर्भावस्य स्वभावमेव . करोति; तस्य स्वहेतुभ्यो निर्वृत्तेः । नापि भावान्तरमेव, भावस्य तदवस्थत्वाद् तथोपलब्ध्यादिप्रसंगः । नापि भावान्तरेणावरणम्, तदवस्थे तस्मिन्नावरणायोगात् । नापि विनाशहेतुना अभावः 20 क्रियते । अभावस्य. विधिनान्यतयोपगमे व्यतिरेकाव्यतिरकविकल्पानतिक्रमात् । भावप्रतिषेधकरणे न तस्य किञ्चित् भवति न भवत्येव केवलमिति । एवं च कर्ता न भवतीत्यकर्तुरहेतुत्वमिति न विनाशहेतुः कश्चित् । वैयर्थ्याच्च । यदि स्वभावतो नश्वरस्तस्य न किञ्चिन्नाशकारणैः । तत्स्वभावतयैव स्वयं नाशात् ।
- यो हि यत् स्वभावः स स्वहेतोरेवोत्पद्यमानो तादृशो भवति, न पुनस्तद्भावे हेत्वन्त- 25 रमपेक्षते । प्रकाशद्रवोष्णकठिनद्रव्यादिवत् । नहि प्रकाशादयस्तदात्मान उत्पन्नाः पुनः
१. व्यो. पृ० ६१७ । न्यायमं० पृ. ५८२ २. वादन्याय पृ० १०८ ३. पृ० २२६ पं० १२ . ४. पृ. १३८ पं. १८। उत्पादा० पृ. ७५.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org