________________
पृ. १४३. पं. २४] हेतुबिन्दुटीकालोकः।
३६७ हेतुभावस्य [१.२.१०] [53a] हेतुत्वस्यापेक्षा कार्येणापेक्ष्यमाणधर्मस्यैवापेक्षा -सा विवक्षितत्वात् सा लक्षणं [१४२.११] यस्य तद्भावस्तत्त्वं तस्मात् । कः पुनरि[१४२.१२]ति सिद्धान्ती। अयं चास्याशयो यदि विनाशोऽन्यथा नोपपद्यते परतश्च न भवति तं चापेक्षत इति प्रमाणसिद्धं स्यात् कल्प्येत वैतत् , यदि परमेतदेव नास्तीति । पूर्वमकिञ्चित्करत्वेन विरोधित्वमुपेत्य तदपेक्षा यां उक्तम् । संप्रति तुं विरोधित्वेऽकिश्चि- 5 करत्वमेव नास्तीति दर्शयन्नाह कथञ्चे[१४२.१५]ति । नाम[१४२.१६]शब्दोऽसंभावनायामिह ।
समयः [१४२.२०] सिद्धान्तः । तद्भाव एव [१४२.२७] मुद्रादिभाव एव । तेषां [१४२.२७] कपालादीनां भावात् उत्पादात् । यथा तद्भावभावित्वं तेषां तथा दर्शयन्नाह-वेगवदि[१४२.२८ति । कस्मात्संजातातिशय इत्यपेक्षायां 10 योज्यम् परस्परे[१४२.२८]त्यादि । 'कार्यमुखेनोक्त्वा कारणमुखेनाप्याह तस्य चे. [१४३.२]ति । तस्य वेगवन्मुद्रादिसहकारिणो घटक्षणस्य ।
परस्परपरिहाररूपत्वात् [१४३.१०] परस्परपरिहारस्थितरूपत्वात् । विनाशः कथं तस्य स्वभावो भवितुमर्हति येन एवमुच्यत इत्याह-विनश्यती[१४ ३.१ ४]ति । भावे विहितो घञ् (कु)तो वचनात्कर्तरि भवतीत्याशंक्याह-बहुलमि[१४३.१४]ति । 15 " कुत्यल्युटो बहुलम् " ( पा. ३-३-११३) इत्यस्माद्वचनादित्यर्थः । - विनाशं प्रत्यनपेक्षां [१४३.२३] प्रतिपाद्ये[१४३.२ ४]ति योज्यम् । . अनपेक्षां विनंष्टुरित्यर्थात् । कथं प्रतिपाद्येत्याह-तदि[१४३.२ ३]ति । तडेवयोगेन विनाशहेत्वयोगेन । अयोग एव कुत इत्याह-असामर्थ्य[१४३.२ ४]ति । पूर्वाचार्यशब्देनाचार्यदिग्नागोऽभिप्रेतः।
स्यादेतत् तत्र खलु विपर्यये बाधकं प्रमाणमुच्यते यत् साध्यविपर्यये हेतोर्वृत्ति(ति) बाधमानं साध्यसाधनयोः प्रतिबन्धं साधयति । न तु यत्साक्षादेव साध्यं साधयति । इयं चानपेक्षा साक्षादेव क्षणक्षयितां कृतकानां सतां साधयितुं शक्तेति । तथाहि ये यद्भावं प्रत्यनपेक्षास्ते तद्भावनियता यथान्त्या कारणसामग्री स्वकार्योत्पादने । विनाशं प्रत्यनपेक्षाश्चोदयानन्तरमिमे कृतका भावा इति-प्रयोगे कृते कृतकानामेषां क्षणिकता किं न 25 प्रतीयते बेन कृतकत्वाद्धेतोस्तत्सिद्धिः प्रार्थ्यते । तस्मादयं मौलो हेतुर्वैयर्थ्यमात्मनः पश्यन्नै(श्यन्ने)वं विपर्यये बाधकं प्रमाण साध्यसिद्धौ सहायमपेक्षयितुं क्षणमपि न क्षमत .. इति। न वयं भट्टाचंटेन कृतकत्वस्य हेतोरेवंरूपे विपर्यये बाधकप्रमाणे प्रदर्शिते सति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org