________________
जैनतर्कभाषा।
६९. कः पुनरत्र बहुविषयो नयः को वाऽल्पविषयः १, इति चेदुच्यते-सन्मात्र. गोचरात्संग्रहात्तावन्नैगमो बहुविषयो भावाभावभूमिकत्वात् । सद्विशेषप्रकाशकाब्यवहारतः संग्रहः समस्तसत्समूहोपदर्शकत्वाद्धहुविषयः । वर्तमानविषयावलम्बिन ऋजुत्रा
कालत्रितयवर्त्यर्थजातावलम्बी व्यवहारो बहुविषयः । कालादिभेदेन भिन्नार्थोपदेशका5 च्छब्दात्तद्विपरीतवेदक ऋजुसूत्रो बहुविषयः । न केवलं कालादिभेदेनैवर्जुसूत्रादल्पार्थता
शब्दस्य, किन्तु भावघटस्यापि सद्भावासद्भावादिनाऽर्पितस्य स्याद् घटः स्यादघट इत्यादिभङ्गपरिकरितस्य तेनाभ्युपगमात् तस्यर्जुसूत्राद् विशेषिततरत्वोपदेशात् । यद्यपीशसम्पूर्णसप्तभङ्गपरिकरितं वस्तु स्याद्वादिन एव सङ्गिरन्ते, तथापि ऋजुसूत्रकृतैतद
भ्युपगमापेक्षयाज्यतरभङ्गेन विशेषितप्रतिपत्तिस्त्रादुष्टेत्यदोष इति वदन्ति । प्रतिपर्याय10 शब्दमर्थभेदमभीप्सतः समभिरूढाच्छब्दस्तद्विषया(द्विपर्यया)नुयायित्वाद्बहुविषयः। प्रतिक्रियं विभिन्नमर्थ प्रतिजानानादेवम्भूतात्समभिरूढः तदन्यथार्थस्थापकत्वादहुविषयः ।
६१०. नयवाक्यमपि स्वविषये प्रवर्तमानं विधिप्रतिषेधाभ्यां सप्तमङ्गीमनुगच्छति, विकलादेशत्वात् , परमेतद्वाक्यस्य प्रमाणवाक्याद्विशेष इति द्रष्टव्यम् ।
[२. नयाभासानां निरूपणम् ।] 15६११. अथ नयामासाः। तत्र द्रव्यमाप्रग्राही पर्यायप्रतिक्षेपी द्रव्यार्थिकामासः ।
पर्यायमात्रग्राही द्रव्यप्रतिक्षेपी पर्यायार्थिकामासः धर्मिधर्मादीनामे(मै)कान्तिकपार्थक्याभिसन्धि गमाभासः, यथा नैयायिकवैशेषिकदर्शनम् । सत्ताऽद्वैतं स्वीकुर्वाणः सकलविशेषाभिराचक्षाणः संग्रहामासः यथाऽखिलान्यद्वैतवादिदर्शनानि सांख्यदर्शनं च । अपार.
मार्थिकद्रव्यपर्यायविभागाभिप्रायो व्यवहारामासः, यथा चार्वाकदर्शनम्, चार्वाको हि 20 प्रमाणप्रतिपनं जीवद्रव्यपर्यायादिप्रविभागं कल्पनारोपितस्वेनापतेऽविचारितरमणीयं
भूतचतुष्टयप्रविभागमानं तु स्थूललोकव्यवहारानुयायितया समर्थयत इति । वर्तमानपर्यायाभ्युपगन्ता सर्वथा द्रव्यापलापी ऋजुस्त्रामासः, यथा तायागतं मतं । कालादिभेदेनार्थभेदमेवाभ्युपगच्छन् शब्दाभासः, यथा बभूव भवति भविष्यति सुमेरुरित्यादयः
शब्दा भिन्नमेवार्थमभिदधति, भिन्नकालशब्दत्वात्ताकसिद्धान्यशब्दवदिति । पर्याय25 ध्वनीनामभिधेयनानात्वमेव कक्षीकुर्वाणः समभिरूढाभासः, यथा इन्द्रः शक्रः पुरन्दर इत्यादयः शब्दा भिन्नाभिधेया एव, भिन्नशब्दत्वात् , करिकुरङ्गशब्दवदिति । क्रिया
१ तुलना-प्र. न. ७. ४६-५२ । सर्वार्थ० १. ३३। तत्स्वार्थश्लोकवा. १. ३१. ८१-८९॥ २ तुलना-प्र. न ७.५३. । ३ तुलना-प्र. न. ५. ११, १२ । लधीय. स्ववि० ५.९.. तस्वार्थश्लोकवा० १. ३३.३१, ३४, ३६, ३८, ४०, ४२, ४४, ४७१४ तुलना-प्र.न. ७.१७, १८, २१, २२ । लधोय. ५.८। तत्त्वार्थश्लोकवा. १. ३३. ५२-५४, ५७। ५ तुलना-प्र. न. ७. २५, २६ । लधीय. ५. १२. 1 तत्त्वार्थश्लोकवा० १. ३३. ६०। ६ स्या. र. पृ० १०५८ । ७ तुलना-प्र. न... ३...। तत्स्वार्थ श्लोकवा० १.३३. ६२.८ तथागतमत-सं० मु.।९ तुलना-प्र. न. ७.३४, ३५। तपार्षश्लोकवा. १.३३ ८..।१०तुलना-प्र. न. ५.३८,३७।११ तुलना-प्र. न. ५.४२, ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org