________________
१. प्रमाणपरिच्छेदः ।
१९ सिद्धसाधनो बाधितविषयश्चेति द्विविधस्याप्यप्रयोजकाह्वयस्य तस्य प्रतीत-निराकृताख्यपक्षाभासभेदानतिरिक्तत्वात् । न च यत्र पक्षदोषस्तत्रावश्यं हेतुदोषोऽपि वाच्यः, दृष्टान्तादिदोषस्याप्यवश्यं वाच्यत्वापत्तेः । एतेन कालात्ययापदिष्टोऽपि प्रत्युक्तो वेदितव्यः । प्रकरणसमोऽपि नातिरिच्यते, तुल्ययलसाध्य तद्विपर्ययसाधकहेतुद्वयरूपे सत्यस्मिन् प्रकृतसाध्यसाधनयोरन्यथानुपपत्यनिश्चयेऽसिद्ध एवान्तर्भावादिति संक्षेपः। 5
[२१. आगमप्रमाणनिरूपणम् । ] ६१. आप्तवचनादाविर्भूतमर्थसंवेदनमागमः । न च व्याप्तिग्रहणवलेनार्थप्रतिपादकत्वाद् धूमवदस्यानुमानेऽन्तर्भावः, कूटा कूटकापिणनिरूपणप्रवणप्रत्यक्षवदभ्यासदशायां व्याप्तिग्रहनैरपेक्ष्येणैवास्यार्थबोधकत्वात् । यथास्थितार्थपरिज्ञानपूर्वकहितोपदेशप्रवण आप्तः । वर्णपदवाक्यात्मकं तद्वचनम् । वर्णोऽकारादिः पौद्गलिकः । पदं सङ्केत- 10 वत् । अन्योऽन्यापेक्षाणां पदानां समुदायो वाक्यम् ।
६२. तेदिदमागमप्रमाणं सर्वत्र विधिप्रतिषेधाभ्यां स्वार्थमभिदधानं सप्तभङ्गीमनुगच्छति, तथैव परिपूर्णार्थप्रापकत्वलक्षणतात्त्विकप्रामाण्यनिर्वाहात् , क्वचिदेकभङ्गदर्शनेऽपि व्युत्पन्नमतीनामितरभङ्गाक्षेपध्रौव्यात् । यत्र तु घटोऽस्तीत्यादिलोकवाक्ये सप्तभङ्गीसंस्पर्शशून्यता तत्रार्थप्रापकत्वमात्रेण लोकापेक्षया प्रामाण्येऽपि तत्वतो न प्रामाण्यमिति 15 द्रष्टव्यम् ।
[ २२. सप्तभङ्गीस्वरूपचर्चा । ) ६६३. केयं सप्तभङ्गीति चेदुच्यते - एकत्र वस्तुन्येकैकधर्मपर्यनुयोगवशादविरोधेन व्यस्तयोः समस्तयोश्च विधिनिषेधयोः कल्पनया स्यात्काराङ्कितः सप्तधा वाक्प्रयोगः सप्तभङ्गी । इयं च सप्तमङ्गी वस्तुनि प्रतिपर्यायं सप्तविधधर्माणां सम्भवात् सप्तविध- 20 संशयोत्थापितसप्तविधजिज्ञासामूलसप्तविधप्रश्नानुरोधादुपपद्यते । तत्र स्यादस्त्येव सर्वमिति प्राधान्येन विधिकल्पनया प्रथमो भङ्गः । स्यात्-कथञ्चित् स्वद्रव्यक्षेत्रकालभावा. पेक्षयेत्यर्थः। अस्ति हि घटादिकं द्रव्यतः पार्थिवादित्वेन, न जलादित्वेन । क्षेत्रतः पाटलिपुत्रकादित्वेन, न कान्यकुब्जादित्वेन । कालतः शैशिरादित्वेन, न वासन्तिकादित्वेन । भावतः श्यामादित्वेन, न रक्तादित्वेनेति । एवं स्यान्नास्त्येव सर्वमिति प्राधा- 25 न्येन निषेधकल्पनया द्वितीयः । न चासत्वं काल्पनिकम् ; सत्त्ववत् तस्य स्वातन्त्र्येणानुभवात् , अन्यथा विपक्षासत्त्वस्य तात्त्विकस्याभावेन हेतोस्त्रैरूप्यव्याघातप्रसङ्गात् । स्यादस्त्येव स्यान्नास्त्येवेति प्राधान्येन क्रमिकविधिनिषेधकल्पनया तृतीयः । स्यादवक्तव्यमेवेति युगपत्प्राधान्येन विधिनिषेधकल्पनयाँ चतुर्थः, एकेन पदेन युगपदुभयोर्वक्तुम
१प्र. न. ४.१।२तुलना-प्र. न. ४.४ । ३तुलना-प्र. न.४. ८,९।४तुलना-प्र. न.४.१०। ५ तुलना-प्र. न. ४. १३ । ६ प्र. न. ४. १४ । ७ तुलना-प्र. न. ४. ३७-४२ । तुलना-प्र. न. ४. १५। ९ तुलना-प्र. न. ४. १६ । १० तुलना-प्र. न. ४.१७। ११ तुलना-प्र. न. ४. १८।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org