________________
१६
जैनतर्कभाषा। त्वात् । बुद्धिरचेतनेत्यादौ च प्रसङ्गविपर्ययहेतोाप्तिसिद्धिनिबन्धनस्य विरुद्धधर्माध्यासस्य विपक्षबाधकप्रमाणस्यानुपस्थापनात् प्रसङ्गस्याप्यन्याय्यत्वमिति वदन्ति ।
६४९. हेतुः साध्योपपत्यन्यथानुपपत्तिभ्यां द्विधा प्रयोक्तव्यः, यथा पर्वतो वह्निमान् , सत्येव वह्नौ धूमोपपत्तेः असत्यनुपपत्तेर्वा । अनयोरन्यतरप्रयोगेणैव साध्यप्रतिप5 तौ द्वितीयप्रयोगस्यैकत्रानुपयोगः।।
__६५०. पक्षहेतुवचनलक्षणमवयवद्वयमेव च परप्रतिपस्यङ्गं न दृष्टान्तादिवचनम् , पक्षहेतुवचनादेव परप्रतिपत्तेः, प्रतिबन्धस्य तर्कत एव निर्णयात्, तत्सरणस्यापि पक्षहेतुदर्शनेनैव सिद्धेः, असमर्थितस्य दृष्टान्तादेः प्रतिपत्त्यनङ्गत्वात्तत्समर्थनेनैवान्यथासिद्धेश्च ।
समर्थनं हि हेतोरसिद्धत्वादिदोषानिराकृत्य स्वसाध्येनाविनाभावसाधनम्, तत एव 10 च परप्रतीत्युपपत्तौ किमपरप्रयासेनेति ? ।
५१. मन्दमतींस्तु व्युत्पादयितुं दृष्टान्तादिप्रयोगोऽप्युपयुज्यते, तथाहि-यः खलु क्षयोपशमविशेषादेव निर्णीतपक्षो दृष्टान्तस्मार्यप्रतिबन्धग्राहकप्रमाणस्मरणनिपुणोऽपरावयवाभ्यूहनसमर्थश्च भवति, तं प्रति हेतुरेव प्रयोज्यः। यस्य तु नाद्यापि पक्षनिर्णयः, तं प्रति पक्षोऽपि । यस्तु प्रतिबन्धग्राहिणः प्रमाणस्य न स्मरति, तं प्रति 15 दृष्टान्तोऽपि । यस्तु दार्टान्तिके हेतुं योजयितुं न जानीते, तं प्रत्युपनयोऽपि । एवमपि
साकाक्षं प्रति च निगमनम् । पक्षादिस्वरूपविप्रतिपत्तिमन्तं प्रति च पक्षशुयोदिकमपीति सोऽयं दशावयवो हेतुः पर्यवस्यति ।
_ [१९. हेतुप्रकाराणामुपदर्शनम् ।] ६५२. से चायं द्विविधा-विधिरूपः प्रतिषेधरूपश्च । 'तत्र विधिरूपो द्विविधः20 विधिसाधकः प्रतिषेधसाधकश्च । तत्राद्यः षोढा, तद्यथा-कश्चिद्व्याप्य एव, यथा शब्दोऽ.
नित्यः प्रयत्ननान्तरीयकत्वादिति । यद्यपि व्याप्यो हेतुः सर्व एव, तथापि कार्याद्य नात्मव्याप्यस्यात्(त्र) ग्रहणाद्भेदः, वृक्षः शिंशपाया इत्यादेरप्यत्रैवान्तर्भावः । कश्चिकार्यरूपः, यथा पर्वतोऽयमग्निमान् धूमवचान्यथानुपपत्तेरित्यत्र धूमः, धूमो ह्यग्नेः कार्यभूतः तदभावेऽनुपपद्यमानोऽमिं गमयति । कश्चित्कारणरूपः, यथा वृष्टिर्भविष्यति, 25 विशिष्टमेघान्यथानुपपत्तेरित्यत्र मेघविशेषः, स हि वर्षस्य कारणं स्वकार्यभृतं वर्ष गम
यति । ननु कार्याभावेऽपि सम्भवत् कारणं न कार्यानुमापकम् , अत एव न वह्निर्धमंगमयतीति चेत् सत्यम् ; यस्मिन्सामर्थ्याप्रतिबन्धः कारणान्तरसाकल्यं च निश्चेतुं शक्यते, तस्यैव कारणस्य कार्यानुमापकत्वात् । कश्चित् पूर्वरैः, यथा उदेष्यति शकटं कृत्तिको
१ तुलना-प्र. न. ३.२९-३१।२ प्र. न. ३. ३२। ३ तुलना-प्र. न. ३. २८, ३३-३६ । ४ तुलना-प्र. न. ३. ४२। ५ दिगम्बरजैनपरम्परायां पञ्चधा शुद्धिन दृश्यते। ६ तुलना-प्र. न.३.५४-५५। ७ तुलना-प्र० न० ३.६८-६९, ७७।' ८-०व्याप्यः स्यात् प्र० सं०। ९ तुलना-प्र. न. ३.७८।१०-तुलना-प्र. न. ३. ७९.। ११ तुलना-प्र. न. ३. ७०.। १२ तुलना प्र. न. ३.८० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org