________________
जैनतर्कभाषा। क्रमेणाल्पीभवद्विषयं हीयमानम् , परिच्छिन्नेन्धनोपादानसन्तत्यग्निशिखावत्, यथा अपनीतेन्धनाग्निज्वाला परिहीयते तथा इदमपीति । उत्पश्यनन्तरं निर्मूलनश्वरं प्रतिपाति, जलतरङ्गवत् , यथा जलतरङ्ग उत्पन्नमात्र एव निर्मूलं विलीयते तथा इदमपि । आ के
वलप्राप्तेः आ मरणाद्वा अवतिष्ठमानम् अप्रतिपाति, वेदवत् , यथा पुरुषवेदादिरापुरुषा5 दिपर्यायं तिष्ठति तथा इदमपीति ।
[१०. मनःपर्यवज्ञानस्य निरूपणम् । ] ६२०. मनोमात्रसाक्षात्कारि मनःपर्यवज्ञानम् । मनःपर्यायानिदं साक्षात्परिच्छेतुमलम् , बाह्यानर्थान् पुनस्तदन्यथाऽनुपपत्त्याऽनुमानेनैव परिच्छिनचीति द्रष्टव्यम् । तद्
द्विविधम् -ऋजुमति-विपुलमतिभेदात् । ऋज्वी सामान्यग्राहिणी मतिः ऋजुमतिः । 10 सामान्यशब्दोऽत्र विपुलमत्यपेक्षयाऽल्पविशेषपरः, अन्यथा सामान्यमात्रग्राहित्वे मन:
पर्यायदर्शनप्रसङ्गात् । विपुला विशेषग्राहिणी मतिर्विपुलमतिः। तत्र ऋजुमत्या घटादिमात्रमनेन चिन्तितमिति ज्ञायते, विपुलमत्या तु पर्यायशतोपेतं तत् परिच्छिद्यत इति । एते च द्वे ज्ञाने विकलविषयत्वाद्विकलप्रत्यक्षे परिभाष्येते ।।
[११. केवलज्ञानस्य निरूपणम् । ] 15२१. निखिलद्रव्यपर्यायसाक्षात्कारि केवलज्ञानम् । अत एवैतत्सकलप्रत्यक्षम् ।
तच्चावरणक्षयस्य हेतोरेक्याद्भेदरहितम् । आवरणं चात्र कर्मैव, स्वविषयेऽप्रवृत्तिमतोऽ. स्मदादिज्ञानस्य सावरणत्वात् , असर्व विषयत्वे व्याप्तिज्ञानाभावप्रसङ्गात्, सावरणत्वा । भावेऽस्पष्टत्वानुपपत्तेश्च । आवरणस्य च कर्मणो विरोधिना सम्यग्दर्शनादिना विना
शात् सिध्यति कैवल्यम् । 20३२२. 'योगजधर्मानुगृहीतमनोजन्यमेवेदमस्तु' इति केचित् तन्नः धर्मानुगृहीते- । नापि मनसा पञ्चेन्द्रियार्थज्ञानवदस्य जनयितुमशक्यत्वात् ।
६२३. 'कवलभोजिना कैवल्यं न घटते' इति दिपटः; तन्नः आहारपर्याप्स्यसातवेदनीयोदयादिप्रसूतया कवलभुक्त्या कैवल्याविरोधात् , घातिकर्मणामेव तद्विरोधि
त्वात् । दग्धरज्जुस्थानीयात्ततो न तदुत्पत्तिरिति चेत् । नन्वेवं तादृशादायुषो 25 भवोपग्रहोऽपि न स्यात् । किञ्च, औदारिकशरीरस्थितिः कथं कवलभुक्तिं विना भग
वतः स्यात् । अनन्तवीर्यत्वेन तां विना तदुपपत्तौ छमस्थावस्थायामप्यपरिमितबलत्वश्रवणाद् भुक्त्यभावः स्यादित्यन्यत्र विस्तरः । उक्तं प्रत्यक्षम् ।
[ १२. परोक्षं लक्षयित्वा पञ्चधा विभज्य च स्मृतेर्निरूपणम् । ] ६२४. अथ परोक्षमुच्यते-अॅस्पष्टं परोक्षम् । तच्च स्मरण-प्रत्यभिज्ञान-तर्का-ऽनुमाना. 30 ऽऽगमभेदतः पञ्चप्रकारम् । अनुभवमात्रजन्यं ज्ञानं स्मरणम् , यथा तत् तीर्थकरविम्बम् ।
१तुलना-प्र. न. २. २२ । २ तुलना-प्र. न. २. २३ । ३-० लवत्वश्र०-मु.। -०लश्र.-प्र.। ४प्र. न. ३.१ ५ तुलना-प्र. न. ३.१।६ तुलना-प्र. न. ३. ३-४ ।
lain Education International
For Private & Personal Use Only
www.jainelibrary.org