________________
६६४
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे [टी०] सप्तसप्तमिकादिप्रतिमाश्च पृथिव्यामेव विधीयन्त इति पृथिवीप्रतिपादनायाहअहेलोए इत्यादि, अधोलोकग्रहणादूर्ध्वलोकेऽपि पृथिवीसत्ताऽवगम्यते, तत्र चैका ईषत्प्राग्भाराख्या पृथिव्यस्तीति, इह च यद्यपि प्रथमपृथिव्या उपरितनानि नव योजनशतानि तिर्यग्लोके भवन्ति तथापि देशोनाऽपि पृथिवीति कृत्वा न दोषायेति, एताश्च क्रमेण 5 बाहल्यतो योजनलक्षमशीत्यादिसहस्राधिकं भवन्ति, उक्तं च
पढमा असीइसहस्सा १ बत्तीसा २ अट्ठवीस ३ वीसा य ४ । अट्ठार ५ सोल ६ अट्ट य ७ सहस्स लक्खोवरिं कुज्जा ॥ [बृहत्सं० २४१] इति ।
अधोलोकाधिकारात्तद्गतवस्तुसूत्राण्या बादरसूत्रात्, सुगमानि चैतानि, नवरं घनोदधीनां बाहल्यं विंशतिर्योजनसहस्राणि घन-तनुवाता-ऽऽकाशान्तराणामसङ्ख्यातानि तानि, 10 आह च
सव्वे वीससहस्सा बाहल्लेणं घनोदधी नेया । सेसाणं तु असंखा अहो अहो जाव सत्तमिया ॥ [बृहत्सं० २४२] इति । तथा छत्रमतिक्रम्य छत्रं छत्रातिच्छत्रम्, तस्य संस्थानम् आकार: ‘अधस्तनं छत्रं महदुपरितनं लघु' इति, तेन संस्थिताः छत्रातिच्छत्रसंस्थानसंस्थिताः, इदमुक्तं भवति15 सप्तमी सप्तरज्जुविस्तृता षष्ठ्यादयस्त्वेकैकरज्जुहीना इति, क्वचित् पाठः पिंडलगपिहुल
संठाणसंठिया, तत्र पिंडलगं पटलकं पुष्पभाजनम्, तद्वत् पृथुलसंस्थानसंस्थिता इति पटलकपृथुलसंस्थानसंस्थिता:, पृथुलपृथुलसंस्थानसंस्थिता इति क्वचित् पाठः, स च व्यक्त एव, नामधेज त्ति नामान्येव नामधेयानि, गोत्त त्ति गोत्राणि
तान्यपि नामान्येव, केवलमन्वर्थयुक्तानि गोत्राणि इतराणि त्वितराणि, अन्वर्थश्च 20 सुखोनेयः।
[सू० ५४७] सत्तविहा बादरवाउकाइया पन्नत्ता, तंजहा-पातीणवाते, पडीणवाते, दाहिणवाते, उदीणवाते, उड्डेवाते, अहेवाते, विदिसिवाते ।
[टी०] सप्तावकाशान्तराणि प्राक् प्ररूपितानि, तेषु च बादरा वायवः सन्तीति तत्प्ररूपणायाह- सत्तविहा बायरेत्यादि, सूक्ष्माणां न भेदोऽस्ति ततो बादरग्रहणम्, 25 भेदश्च दिग्विदिग्भेदात् प्रतीत एवेति ।
१. संख्येयानि जे१ ॥ २-३. पिड जे१ खं० ॥ ४. विदिसवाते भां० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org