________________
आचार्यश्री अभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे
करणसामग्र्यभावादपक्रामामि भदन्त इति द्वितीयम् २, तथा सर्व्वधर्म्मान् उक्तलक्षणान् विचिकित्सामि संशयविषयीकरोमीत्यतः संशयापनोदार्थं गणादपक्रामामीति तृतीयम् ३, एवमेककान् विचिकित्सामि, एककान् नो विचिकित्सामीति चतुर्थम् ४, तथा जुहुणामित्ति जुहोमि अन्येभ्यो ददामि, न च स्वगणे पात्रमस्त्यतोऽपक्रामामीति 5 पञ्चमम् ५, एवं षष्ठमपि ६, तथा इच्छामि णं भदन्त ! धर्माचार्य ! एकाकिनो गच्छनिर्गतत्वाज्जिनकल्पिकादितया यो विहारो विचरणं तस्य या प्रतिमा प्रतिपत्तिः प्रतिज्ञा सा एकाकिविहारप्रतिमा तामुपसम्पद्य अङ्गीकृत्य विहर्त्तुमिति सप्तममिति ७ | अथवा सर्वधर्म्मान् रोचयामि श्रद्दधे अहमिति तेषां स्थिरीकरणार्थमपक्रामामि, तथा - एककान् रोचयामि श्रद्दधे एककांश्च नो रोचयामीत्यश्रद्धितानां 10 श्रद्धानार्थमपक्रामामीत्यनेन पदद्वयेन सर्वविषयाय देशविषयाय च सम्यग्दर्शनाय गणापक्रमणमुक्तम् । एवं सर्व देशविषयसंशयविनोदसूचकेन सव्वधम्मा विचिकिच्छामीत्यादिपदद्वयेन ज्ञानार्थमपक्रमणमुक्तम्, तथा सर्वधर्मान् जुहोमीति जुहोतेरदनार्थत्वाद् भक्षणार्थस्य चाऽऽ सेवावृत्तिदर्शनादाचराम्यासेवाम्यनुतिष्ठामीति यावत्, तथा एककान्नासेवामीति सर्वेषामासेव्यमानानां विशेषार्थमनासेवितानां च क्षपण15 वैयावृत्यादीनां चरित्रधर्माणामासेवार्थमपक्रामामीत्यनेन पदद्वयेन तथैव चारित्रार्थमपक्रमणमुक्तमिति, उक्तं च
20
25
६५२
-
नाट्ठ दंसणट्ठा चरणट्ठा एवमाइ संकमणं ।
संभोगट्ठा व पुणो आयरियट्ठा व णायव्वं ॥ [ निशीथ० ५४५८ ] इति । तत्र ज्ञानार्थम् - सुत्तस्स व अत्थस्स व उभयस्स व कारणा उ संकमणं ।
वीसज्जियस्स गमणं भीओ य नियत्तए कोइ ॥ [ निशीथ० ५४५९] इति । दर्शनप्रभावकशास्त्रार्थं दर्शनार्थम् । चारित्रार्थं यथा
चरितट्ठ देसि दुविहा, देशे द्विविधा दोषा इत्यर्थः, एसणदोसा य इत्थिदोसा य । ततो गणापक्रमणं भवति, गच्छम्मि य सीयंते आयसमुत्थेहिं दोसेहिं ॥ [ निशीथ० ५५३९] इति ।
सम्भोगार्थं नाम यत्रोपसम्पन्नस्ततोऽपि विसम्भोगकारणे सदनलक्षणे सत्यपक्रामतीति, १. गाथेयं बृहत्कल्पभाष्येऽपि ५४४० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org