________________
तृतीयं परिशिष्टम्- टिप्पनानि ।
[पृ०५९७ पं०११] तुलना- “विणएण तहणुभासा हवदि य अणुपालणाय परिणामे। एदं पच्चक्खाणं चदुविधं होदि णादव्वं ॥१३८॥ विनयेन शुद्धं तथाऽनुभाषयाऽनुपालनेन परिणामेन च यच्छुद्धं भवति तदेतत्प्रत्याख्यानं चतुर्विधं भवति ज्ञातव्यमिति यस्मिन् प्रत्याख्याने विनयेन सार्द्धमनुभाषाप्रतिपालनेन सह परिणामशुद्धिस्तत्प्रत्याख्यानं चतुर्विधं भवति ज्ञातव्यमिति ॥१३८॥
विनयप्रत्याख्यानं तावदाह- किदियम्मं उवचारिय-विणओ तह णाणदंसणचरित्ते । पंचविधविणयजुत्तं विणयसुद्धं हवदि तं तु ॥१३९॥ कृतिकर्म सिद्धभक्तियोगभक्तिगुरुभक्तिपूर्वकं कायोत्सर्गकरणम्, पूर्वोक्तः औपचारिकविनयः कृतकरमुकुलललाटपट्टविनतोत्तमांगः प्रशांततनुः पिच्छिकया विभूषितवक्ष इत्याधुपचारविनयः, तथा ज्ञानदर्शनचारित्रविषयो विनयः, एवं क्रियाकर्मादिपंचप्रकारेण विनयेन युक्तं विनयशुद्धं तत्प्रत्याख्यानं भवत्येवेति ॥१३९॥ ____ अनुभाषायुक्तं प्रत्याख्यानमाह- अणुभासदि गुरुवयणं अक्खरपदवंजणं कमविसुद्धं । घोसविसुद्धी सुद्धं एवं अणुभासणासुद्धं ॥१४०॥ अणुभासदि अनुभाषते अनुवदति गुरुवचनं गुरुणा यथोच्चारिता प्रत्याख्यानाक्षरपद्धतिस्तथैव तामुच्चरतीति, अक्षरमेकस्वरयुक्तं व्यंजनम्, इच्छामीत्यादिकं पदं सुबन्तं मिङतं चाक्षरसमुदायरूपम्, व्यंजनमनक्षरवर्णरूपं खंडाक्षरानुस्वारविसर्जनीयादिकं क्रमविशुद्धं येनैव क्रमेण स्थितानि वर्णपदव्यंजनवाक्यादीनि ग्रंथार्थोभयशुद्धानि तेनैव पाठः, घोषविशुद्ध्या च शुद्धं गुर्वादिकवर्णविषयोच्चारणसहितं मुख्यमध्योच्चारणरहितं महाकलकलेन विहीनं स्वरविशुद्धमिति, एवमेतत्प्रत्याख्यानमनुभाषणशुद्धं वेदितव्यमिति ॥१४०॥ ।
अनुपालनसहितं प्रत्याख्यानस्य स्वरूपमाह- आदंके उवसग्गे समे य दुन्भिक्खवुत्ति - कंतारे। जं पालिदं ण भग्गं एवं अणुपालणासुद्धं ॥१४१॥ आतंकः सहसोत्थितो व्याधिः, उपसर्गो देवमनुष्यतिर्यकृतपीडा, श्रम उपवासालाभमार्गादिकृतः परिश्रमः ज्वररोगादिकृतश्च, दुर्भिक्षवृत्तिर्वर्षाकालराज्यभंगविड्वरचौराद्युपद्रवभयेन शस्याद्यभावेन भिक्षायाः प्राप्त्यभावः, कान्तारं महाटवीविंध्यारण्यादिकभयानकप्रदेशः, एतेषूपस्थितेष्वातंकोपसर्गदुर्भिक्षवृत्तिकान्तारेषु यत्प्रतिपालितं रक्षितं न भग्नं न मनागपि विपरिणामरूपं जातं तदेतत्प्रत्याख्यानमनुपालनविशुद्धं नाम ॥१४१॥
परिणामविशुद्धप्रत्याख्यानस्य स्वरूपमाह- रागेण व दोसेण व मणपरिणामेण दूसिदं जं तु। तं पुण पच्चक्खाणं भावविसुद्धं तु णादव्वं ॥१४२॥ रागपरिणामेन द्वेषपरिणामेन च न दूषितं न प्रतिहतं विपरिणामेन यत्प्रत्याख्यानं तत्पुनः प्रत्याख्यानं भावविशुद्धं तु ज्ञातव्यमिति। सम्यग्दर्शनादियुक्तस्य निःकांक्षस्य वीतरागस्य समभावयुक्तस्याहिंसादिव्रतसहितस्य शुद्धभावस्य प्रत्याख्यानं परिणामशुद्धं भवेदिति ॥१४२॥" - इतिआचार्य वसुनन्दिविरचितटीकासहिते मूलाचारे सप्तमे षडावश्यकाधिकारे ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org