SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ ७६४ अथ नवममध्ययनं नवस्थानकम् । [सू० ६६१] नवहिं ठाणेहिं समणे णिग्गंथे संभोतितं विसंभोतितं करेमाणे णातिक्कमति, तंजहा-आयरियपडिणीयं उवज्झायपडिणीयं थेरपडिणीयं कुलपडिणीयं गणपडिणीयं संघपडिणीयं नाणपडिणीयं दंसणपडिणीयं 5 चरित्तपडिणीयं । [टी०] व्याख्यातमष्टममध्ययनमधुना नवममारभ्यते, अस्य च पूर्वेण सह सम्बन्ध: सङ्ख्याक्रमकृत एवैकः, सम्बन्धान्तरं तु पूर्वस्मिन् जीवादिधर्मा उक्ता: इहापि त एवेत्येवंसम्बन्धस्यास्यादिसूत्रम्- नवहिं ठाणेहिं समणे इत्यादि, अस्य च पूर्वसूत्रेण सहायमभिसम्बन्धः- पूर्वसूत्रे पुद्गला वर्णितास्तद्विशेषोदयाच्च कश्चिच्छमणभावमुपगतोऽपि 10 धर्माचार्यादीनां प्रत्यनीकतां करोति, तं च विसम्भोगिकं कुर्वन्नपर: सुश्रमणो नाज्ञामतिक्रामतीतीहाभिधीयत इत्येवंसम्बन्धस्यास्य व्याख्या, सा च सम्बन्धत एवोक्तेति । [सू० ६६२] णव बंभचेरा पन्नत्ता, तंजहा-सत्थपरिण्णा लोगविजओ जाव उवहाणसुयं महपरिण्णा । 15 [टी०] स्वयं ब्रह्मचर्यव्यवस्थित एव चैवं करोतीति तदभिधायकाध्ययनानि दर्शयन्नाह नव बंभचेरेत्यादि, ब्रह्म कुशलानुष्ठानं तच्च तच्चर्यं चासेव्यमिति ब्रह्मचर्यं संयम इत्यर्थः, तत्प्रतिपादकान्यध्ययनान्याचारप्रथमश्रुतस्कन्धप्रतिबद्धानि ब्रह्मचर्याणि, तत्र शस्त्रं द्रव्य-भावभेदादनेकविधम्, तस्य जीवशंसनहेतोः परिज्ञा ज्ञानपूर्वकं प्रत्याख्यानं यत्रोच्यते सा शस्त्रपरिज्ञा १, लोकविजओ त्ति भावलोकस्य राग-द्वेषलक्षणस्य 20 विजयो निराकरणं यत्राभिधीयते स लोकविजय: २, सीओसणिजं ति शीता: अनुकूला: परीषहा उष्णा: प्रतिकूलास्तानाश्रित्य यत् कृतं तच्छीतोष्णीयम् ३, सम्मत्तं ति सम्यक्त्वमविचलं विधेयम्, न तापसादीनां कष्टतप:सेविनामष्टगुणैश्वर्यमुद्वीक्ष्य दृष्टिमोह: कार्य इति प्रतिपादनपरं सम्यक्त्वम् ४, आवंतीति आद्यपदेन, नामान्तरेण तु लोकसारः, तच्चाज्ञानाद्यसारत्यागेन लोकसाररत्नत्रयोद्युक्तेन भाव्यमित्येवमर्थं १. तुलना- सू० १८०,२०८,३९८ ।। २. 'मधुना संख्याक्रमसंबद्धमेव नवमस्थानकाख्यं नवममध्ययनमारभ्यते पासं० ॥ ३. संबद्धस्या जे१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy