SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ ७५० आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे मेरो: पूर्वोत्तरविदिग्व्यवस्थितं लक्षणीकृत्य प्रदक्षिणया वक्षारा विजयाश्च व्यवस्थाप्यन्त इति, तत्र चक्रवर्त्तिनो विजयन्ते येषु यान् वा ते चक्रवर्त्तिविजया: क्षेत्रविभागा इति, जाव पुक्खलावइ त्ति भणनात् ‘मंगलावत्ते पुक्खले' त्ति द्रष्टव्यम्, जाव मंगलावइ त्ति करणात् ‘महावच्छे वच्छावई रम्मे रम्मए रमणिज्जे' इति दृश्यम्, जाव सलिलावइ 5 त्ति करणात् ‘सुपम्हे महापम्हे पम्हावई संखे नलिणे कुमुए'त्ति दृश्यम्, जाव गंधिलावइ त्ति करणात् ‘महावप्पे वप्पावई वग्गू सुवग्गू गंधिले'त्ति दृश्यम्, खेमपुरा चेव जाव त्ति करणात् ‘अरिट्ठा रिट्ठवई खग्गी मंजूसा ओसहिपुरी'ति दृश्यम्, सुसीमा कुंडला चेव जाव त्ति करणात् 'अपराजिया पहंकरा अंकावई पम्हावई सुभा'इति दृश्यम्, आसपुरा जाव त्ति करणात् ‘सीहपुरा महापुरा विजयपुरा अवराजिया अवरा असोग'त्ति 10 दृश्यम्, वेजयन्ती जाव त्ति करणात् ‘जयन्ती अवराजिया चक्कपुरा खग्गपुरा अवज्झ'त्ति दृश्यम् । [सू० ६३८] जंबुमंदरपुरस्थिमेणं सीताते महाणदीए उत्तरेणं उक्कोसपए अट्ठ अरहंता अट्ठ चक्कवट्टी अट्ट बलदेवा अट्ठ वासुदेवा उप्पजंति वा उप्पजिंसु वा उप्पजिस्संति वा ११ । जंबुमंदरपुरस्थिमेणं सीताए [महाणदीए] दाहिणेणं 15 उक्कोसपए एवं चेव १२ । जंबुमंदरपच्चत्थिमेणं सीओदाते महाणदीए दाहिणेणं उक्कोसपए एवं चेव १३, एवं उत्तरेण वि १४ । [टी०] एताश्च क्षेमादिराजधान्य: कच्छादिविजयानां शीतादिनदीसमासन्नखण्डत्रयमध्यमखण्डे भवन्ति नवयोजनविस्तारा द्वादशयोजनायामाः। __ आसु च तीर्थकरादयो भवन्तीति अट्ठ अरहंत त्ति उत्कृष्टतोऽष्टावर्हन्तो भवन्ति, 20 प्रत्येकं विजयेषु भावात्, एवं चक्रवर्त्यादयोऽपि, एवं च चतुर्ध्वपि महानदीकूलेषु द्वात्रिंशत्तीर्थकरा भवन्ति, चक्रवर्तिनस्तु यद्यपि शीताशीतोदानद्योरेकैकस्मिन् कूले अष्टावष्टावुत्पद्यन्त इत्युच्यते तथापि सर्वविजयापेक्षया नैकदा ते द्वात्रिंशद्भवन्ति, जघन्यतोऽपि वासुदेवचतुष्टयाविरहितत्वान्महाविदेहस्य, यत्र च वासुदेवस्तत्र चक्रवर्ती १. सुसीमा नास्ति खं० विना ॥ २. भवंतीति पा० जे२ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001029
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 03
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2004
Total Pages588
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy