________________
प्रथमं परिशिष्टम्- टिप्पनानि
१४१ [पृ० ६४४] “मोत्तूण सगमबाहे पढमाएँ ठिइऍ बहुतरं दव्वं । एत्तो विसेसहीणं जावुक्कोसं ति सव्वस्सिं ॥११८३॥ मोत्तूण त्ति सर्वस्मिन्नपि कर्मणि बध्यमाने आत्मीयमात्मीयमबाधाकालं मुक्त्वा परित्यज्य ऊर्ध्वं दलिकनिक्षेपं करोति । तत्र प्रथमायां स्थितौ समयलक्षणायां प्रभूततरं द्रव्यं कर्मदलिकं निषिञ्चति । एत्तो विसेसहीणं ति इतः प्रथमस्थितेरूवं द्वितीयादिषु स्थितिषु समयसमयप्रमाणासु विशेषहीनं विशेषहीनं कर्मदलिकं निषिञ्चति । तथाहि- प्रथमस्थितेः सकाशात् द्वितीयस्थितौ विशेषहीनं। ततोऽपि तृतीयस्थितौ विशेषहीनं । ततोऽपि चतुर्थस्थितौ विशेषहीनम् । एवं विशेषहीनं विशेषहीनं तावद्वाच्यं यावत्तत्तत्समयबध्यमानकर्मणामुत्कृष्टा स्थितिश्चरमसमय इत्यर्थः ॥११८३॥” कर्मप्रकृति० मलय० ॥
[पृ० ६४९] "इदानीं मिथ्याकारविषयप्रतिपादनायाह- संजमजोए अब्भुट्ठियस्स जंकिंचि वितहमायरियं । मिच्छा एतंति वियाणिऊण मिच्छत्ति कायव्वं ॥६८२॥ व्या० संयमयोगः समितिगुप्तिरूपस्तस्मिन्विषयभूतेऽभ्युत्थितस्य सतः यत्किञ्चिद्वितथम् अन्यथा आचरितम् आसेवितम्, भूतमिति वाक्यशेषः, मिथ्या एतदिति विपरीतमेतदित्येवं विज्ञाय किम् ?- मिच्छत्ति कायव्वं मिथ्यादुष्कृतं दातव्यमित्यर्थः । संयमयोगविषयायां च प्रवृत्तौ वितथासेवने मिथ्यादुष्कृतं दोषापनयनायालम्, न तूपेत्यकरणगोचरायां नाप्यसकृत्करणगोचरायामिति गाथाहृदयार्थः ॥
इदानीमनियतकायोत्सर्गवक्तव्यतावसरः, तत्रेयं गाथा- गमणागमणविहारे सुत्ते वा सुमिणदंसणे राओ । नावानइसंतारे इरियावहियापडिक्कमणं ॥१५३३॥ गमणं भिक्षादिनिमित्तमन्यग्रामादौ, आगमणं तत्तो चेव, इत्थ इरियावहियं पडिक्कमिऊण पंचवीसुस्साओ काउस्सग्गो कायव्वो ॥१५३३॥" - आव० नि० हारि० ।
[पृ० ६५०] “पाणवहमुसावाए अदत्तमेहुणपरिग्गहे चेव । सयमेगं तु अणूणं ऊसासाणं हविजाहि ॥१५३८॥ सुमिणदंसणे राउ त्ति द्वारं व्याख्यानयन्नाह- पाणवहमुसावाए गाहा, सुमिणमि पाणवहमुसावाए अदत्तमेहुणपरिग्गहे चेव आसेविए समाणे सयमेगं तु अणूणं उस्सासाणं भविज्जाहि, मेहुणे दिट्ठिविप्परियासियाए सयं इत्थीविप्परियासयाए अट्ठसयंति ॥ उक्तं च- दिट्ठीविप्परियासे सय मेहुन्नंमि थीविपरियासे । ववहारेणठ्ठसयं अणभिस्संगस्स साहुस्स ॥१॥[ ] गाथार्थः ॥१५३८॥" - आव० नि० हारि० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org