________________
प्रथमं परिशिष्टम्- टिप्पनानि
१३९
[पृ०६४०] “इमे पुनः षडनवस्थिताः - आचेलक्कुद्देसिय, सपडिक्कमणे य रायपिंडे य । मासं पज्जोसवणा, छऽप्पेतऽणवट्ठिता कप्पा ||६३६२|| आचेलक्यमौद्देशिकं सप्रतिक्रमणो धर्मो राजपिण्डो मासकल्पः पर्युषणाकल्पश्चेति षडप्येते कल्पा मध्यमसाधूना विदेहसाधूनां चानवस्थिताः । तथाहि - यदि तेषां वस्त्रप्रत्ययो रागो द्वेषो वा उत्पद्यते तदा अचेलाः, अथ न रागोत्पत्तिस्ततः सचेलाः, महामूल्यं प्रमाणातिरिक्तमपि च वस्त्रं गृह्णन्तीति भावः । औद्देशिकं नाम साधूनुद्दिश्य कृतं भक्तादिकम् आधाकर्मेत्यर्थः, तदप्यन्यस्य साधोरर्थाय कृतं तेषां कल्पते, तदर्थं तु कृतं न कल्पते । प्रतिक्रमणमपि यदि अतिचारो भवति ततः कुर्वन्ति अतिचाराभावे न कुर्वन्ति । राजपिण्डे यदि वक्ष्यमाणा दोषा भवन्ति ततः परिहरन्ति अन्यथा गृह्णन्ति । मासकल्पे यदि एकक्षेत्रे तिष्ठतां दोषा न भवन्ति ततः पूर्वकोटीमप्यासते, अथ दोषा भवन्ति ततो मासे पूर्णेऽपूर्णे वा निर्गच्छन्ति । पर्युषणायामपि यदि वर्षासु विहरतां दोषा भवन्ति तत एकत्र क्षेत्रे आसते, अथ दोषा न भवन्ति ततो वर्षात्रेऽपि विहरन्ति ॥६३६२॥
आचेलक्कुद्देसिय, सिज्जायर रायपिंड कितिकम्मे । वत जेट्ठ पडिक्कमणे, मासंपज्जोसवणकप्पे ॥६३६४ ॥ आचेलक्यम् १ औद्देशिकम् २ शय्यातरपिण्डो ३ राजपिण्डः ४ कृतिकर्म ५ व्रतानि ६ जेट्ठत्ति पुरुषज्येष्ठो धर्मः ७ प्रतिक्रमणम् ८ मासकल्पः ९ पर्युषणाकल्पश्च १० इति द्वारगाथासमासार्थः ॥६३६४॥
परिहारिआ वि छम्मासे अणुपरिहारिआ वि छम्मासा । कप्पट्ठितो वि छम्मासे एते अट्ठारस उ मासा ||६४७४ | | परिहारिकाः प्रथमतः षण्मासान् प्रस्तुतं तपो वहन्ति, ततोऽनुपरिहारिका अपि षण्मासान् वहन्ति, इतरे तु तेषामनुपरिहारिकत्वं प्रतिपद्यन्ते । तैरपि व्यूढे सति कल्पस्थितः षण्मासान् वहति, ततः शेषाणामेकः कल्पस्थितो भवति एकः पुनरनुपरिहारिकत्वं प्रतिपद्यते । एवमेतेऽष्टादश मासा भवन्ति ॥६४७४||
गच्छम्म यणिम्माया, धीरा जाहे य मुणियपरमत्था । अग्गह जोग अभिग्गहे, उविंति जिणकप्पियचरितं ॥ ६४८३ || यदा गच्छे प्रव्रज्या - शिक्षापदादिक्रमेण निर्माताः निष्पन्नाः, धीराः औत्पत्तिक्यादिबुद्धिमन्तः परीषहोपसर्गेरक्षोभ्या वा, मुणितपरमार्थाः 'अभ्युद्यतविहारेण विहर्तुमवसरः साम्प्रतमस्माकम्' इत्येवमवगतार्थाः, तथा ययोः पिण्डैषणयोः असंसृष्टा - संसृष्टाख्ययोरग्रहस्ते परिहर्तव्ये, यास्तु उपरितन्यः पञ्चैषणास्तासाम् अभिग्रहः 'एता एव ग्रहीतव्याः' इत्येवंरूपः, तत्राप्येकदैकतरस्यां योग: व्यापारः परिभोग इत्यर्थः । एवं भावितमतयो यदा भवन्ति तदा जिनकल्पिकचारित्रम् उपयान्ति प्रतिपद्यन्ते ||६४८३ ॥
सम्प्रति स्थविरकल्पस्थितिमाह - संजमकरणुज्जोवा, णिप्फातग णाण- दंसण - चरिते । दीहाउ वुडवासो, वसहीदोसेहि य विमुक्का || ६४८५ || संयमः पञ्चाश्रवविरमणादिरूपः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org