________________
[सू० ५१७] षष्ठमध्ययनं षट्स्थानकम् ।
६२९ चंदस्स णं जोतिसिंदस्स जोतिसरण्णो छ णक्खत्ता णत्तंभागा अवड्डखेत्ता पन्नरसमुहुत्ता पन्नत्ता, तंजहा-सतभिसता, भरणी, अद्दा, अस्सेसा, साती, जेट्ठा २ ।
चंदस्स णं जोतिसिंदस्स जोतिसरन्नो छ णक्खत्ता उभयंभागा दिवड्डखेत्ता पणयालीसमुहुत्ता पन्नत्ता, तंजहा-रोहिणी, पुणव्वसू, उत्तरा फग्गुणी, विसाहा, 5 उत्तरा आसाढा, उत्तरा भद्दवया ३॥
[टी०] अनन्तरं विमानवक्तव्यतोक्तेति तत्प्रस्तावान्नक्षत्रविमानवक्तव्यतां सूत्रत्रयेणाहचंदस्सेत्यादि व्यक्तम्, नवरं पुव्वंभाग त्ति पूर्वमिति पूर्वभागेनाग्रेणेत्यर्थः, भज्यन्ते अप्राप्तेनैव चन्द्रेण सेव्यन्ते युज्यन्ते इति यावदिति पूर्वभागानि, अनुस्वारश्च प्राकृतत्वादिति, चन्द्रस्याग्रयोगीनि, चन्द्र एतान्यप्राप्तो भुङ्क्त इति लोकश्रीप्रोक्ता 10 भावनेति, उक्तं च तत्रैवपुव्वा तिन्नि य मूलो मह कित्तिय अग्गिमा जोगा [ ] इति ।
समं स्थूलन्यायमाश्रित्य त्रिंशन्मुहूर्त्तभोग्यं क्षेत्रम् आकाशदेशलक्षणं येषां तानि समक्षेत्राणि, अत एवाह- त्रिंशन्मुहूर्तानि त्रिंशतं मुहूर्तांश्चन्द्रभोगो येषां तानि तथा। णत्तंभाग त्ति नक्तंभागानि चन्द्रस्य समयोगीनीत्यर्थः, उक्तं च- अद्दाऽसेसा साई 15 सयभिसमभिई य जेट्ठ समजोगा [ ] केवलं भरणीस्थाने लोकश्रीसूत्रे अभिजिदुक्तेति मतविशेषो दृश्यत इति, अपार्द्धं समक्षेत्रापेक्षया अर्द्धमेव क्षेत्रं येषां तानि तथा । अर्द्धक्षेत्रत्वमेवाह- पञ्चदशमुहर्तानीति । उभयंभाग त्ति चन्द्रेणोभयत: उभयभागाभ्यां पूर्वत: पश्चाच्चेत्यर्थः, भज्यन्ते भुज्यन्ते यानि तान्युभयभागानि, चन्द्रस्य पूर्वत: पृष्ठतश्च भोगमुपगच्छन्तीत्यर्थः इति भावना लोकश्रीभणितेति, उक्तं च- उत्तर तिन्नि विसाहा 20 पुणव्वसू रोहिणी उभयजोगा॥ [ ] इति । द्वितीयमपार्द्ध यत्र तत् व्यपार्द्व सार्द्धमित्यर्थः, क्षेत्रं येषां तानि तथा, यत: पञ्चचत्वारिंशन्मुहूर्तानीति । अन्यानि दश पश्चिमयोगानि । पूर्वभागादिनक्षत्राणां गुणोऽयम्
उक्तक्रमेण नक्षत्रैयुज्यमानस्तु चन्द्रमा: । सुभिक्षकृद्विपरीतं युज्यमानोऽन्यथा भवेत् ॥ [ ] इति ।
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.