SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ ५६२ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे जक्खाइ8 उम्मायपत्तं उवसग्गपत्तं साहिगरणं सपायच्छित्तं भत्तपाणपडियातिक्खियं अट्ठजायं वा निग्गंथे निग्गंथिं गेण्हमाणे वा अवलंबमाणे वा णातिक्कमति ५ । [टी०] अनन्तरं द्रव्यप्रबुद्ध: कारणत उक्तः, अथ भावप्रबुद्धमनुष्ठानत आज्ञानतिक्रमिणं 5 दर्शयितुमाह- पंचहीत्यादि सुगमम्, नवरं गिण्हमाणे त्ति बाह्वादावङ्गे गृह्णन्, अवलम्बमान: पतन्तीं बाह्वादौ गृहीत्वा धारयन्, अथवा सव्वंगियं तु गहणं करेण अवलंबणं तु देसम्मि [बृहत्कल्प० ६१९२] त्ति नातिक्रामति स्वाचारमाज्ञां वा गीतार्थस्थविरो निर्ग्रन्थिकाऽभावे न यथाकथञ्चित्, पशुजातीयो दृप्तगवादिः, पक्षिजातीयो गृध्रादिः, ओहाएज त्ति उपहन्यात्, तत्रेति उपहनने गृह्णन्नातिक्रामति कारणिकत्वात्, निष्कारणत्वे 10 तु दोषा:, यदाह मिच्छत्तं उड्डाहो विराहणा फासभावसंबंधो । पडिगमणाई दोसा भुत्ताभुत्ते य नायव्वा ॥ [बृहत्कल्प० ६१७०] इत्येकम् । तथा दु:खेन गम्यत इति दुर्गः, स च त्रिधा- वृक्षदुर्ग: श्वापददुग्र्गो म्लेच्छादिमनुष्यदुर्गः, तत्र वा मार्गे, उक्तं च15 तिविहं च होइ दुग्गं रुक्खे सावयमणुस्सदुग्गं च । [बृहत्कल्प० ६१८३] त्ति । ___ तथा विषमे वा गर्तपाषाणाद्याकुले पर्वते वा प्रस्खलन्ती वा गत्या प्रपतन्ती वा भुवि, अथवा भूमीए असंपत्तं पत्तं वा हत्थजाणुगादीहिं । पक्खुलणं नायव्वं पवडण भूमीए गत्तेहिं ॥ [बृहत्कल्प० ६१८६] ति, 20 गृह्णन्नातिक्रामतीति द्वितीयम् । तथा पङ्कः पनको वा संजलो यत्र निमज्ज्यते स सेकस्तत्र वा, पङ्कः कर्दमस्तत्र वा, पनके वा आगन्तुकप्रतनुद्रवरूपे कर्दम एव ओल्यां वा, अपकसन्तीं पङ्क-पनकयोः परिह्रसन्तीम् अपोह्यमानां वा सेके उदके वा नीयमानां गृह्णन्नातिक्रामतीति, गाथे चेह पंको खलु चिक्खल्लो आगंतू पतणुओ द्रवो पणओ। 25 सो च्चिय सजलो सेओ सीइजइ जत्थ दुविहे वि ॥ त्ति । १. अथ जे१ खं० मध्ये नास्ति ॥ २. निशीथभा० ५९२० ॥ ३. सजलो वा यत्र जे१ ॥ ४. आगंतुं पा० ॥२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy