SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ [सू० ४१७] पञ्चममध्ययनं पञ्चस्थानकम् । द्वितीय उद्देशकः । णातिक्कमति १, एवमेतेणं गमएणं दित्तचित्ते जक्खातिट्ठे उम्मायपत्ते निग्गंथीपव्वावियते समणे णिग्गंथे णिग्गंथेहिं अविज्जमाणेहिं अचेलए सचेलियाहिं णिग्गंथीहिं सद्धिं संवसमाणे णातिक्कमति । [टी०] स्त्र्यधिकारादेव साध्वीवक्तव्यताप्रतिबद्धं सूत्रद्वयमिदमाह - पंचहीत्यादि, सुगमम्, नवरम् एगयओ त्ति एकत्र ठाणं ति कायोत्सर्ग [म्] उपवेशनं वा सेजं ति 5 शयनं निसीहियं ति स्वाध्यायस्थानं चेतयन्तः कुर्वन्तो नातिक्रामन्ति न लङ्घयन्ति, आज्ञामिति गम्यते । अत्थि त्ति सन्ति भवन्ति एगइय त्ति एके केचन एकाम् अद्वितीयां महतीं विपुलामग्रामिकामकामिकां वा अनभिलषणीयां छिन्ना आपाताः सार्थगोकुलादीनां यस्यां सा तथा ताम्, दीर्घोऽध्वा मार्गे यस्यां सा तथा तां दीर्घाध्वानम्, मकारस्त्वागमिकः, दीर्घोऽद्धा वा कालो निस्तरणे यस्याः सा दीर्घाद्धा तामटवीं 10 कान्तारमनुप्रविष्टा दुर्भिक्षादिकारणवशात् तत्र अटव्याम् एगयउ त्ति एकत: एकत्रेत्यर्थः स्थानादि कुर्वन्तः आगमोक्तसामाचार्या नातिक्रामन्ति १ । तथा राजधानी यत्र राजा अभिषिच्यते, वासमुपगता: निवासं प्राप्ता इत्यर्थ:, एगइया यत्थ त्ति एकका एकतरा निर्ग्रन्था निर्ग्रन्थिका वा, चः पुनरर्थः, अत्र ग्रामादौ, उपाश्रयं गृहपतिगृहादिकमिति २, तथा अत्थे त्ति अथ गृहपतिगृहादिकमुपाश्रयमलब्ध्वा एगइया एके नागकुमारावासादी 15 वासमुपगता: अथवा अत्थे त्ति इह सम्बध्यते अस्ति सन्ति भवन्ति निवासमुपगता इति, तस्य च नागकुमारावासादेरतिशून्यत्वादथवा बहुजनाश्रयत्वादनायकत्वाच्च निर्ग्रन्थिकारक्षार्थमेकत एव स्थानादि कुर्वाणा नातिक्रामन्तीति ३, तथा आमुष्णन्तीत्यामोषकाः चौरा दृश्यन्ते, ते च इच्छन्ति निर्ग्रन्थिका: चीवरवडियाए त्ति चीवरप्रतिज्ञया 'वस्त्राणि ग्रहीष्यामः' इत्यभिप्रायेण प्रतिग्रहीतुं यत्रेति गम्यते, तत्र 20 निर्ग्रन्थास्तद्रक्षणार्थमेकतः स्थानादिकमिति ४, तथा मैथुनप्रतिज्ञया मैथुनार्थमिति ५ । इदमपवादसूत्रम्, उत्सर्गश्चापवादसहितो भाष्यगाथाभिरवसेयस्ताश्चेमाः ४ भयणपयाण चउण्हं एकः साधुरेका स्त्रीत्यादिभङ्गकानामित्यर्थः अन्नतरजुए उ संजए संते । जे भिक्खू विहरेज्जा अहवा वि करेज सज्झायं ॥ असणादिं वाऽऽहारे उच्चारादिं च आचरेज्जाहि । ५४१ १. संभवंति जे१ ॥ २. एगयय त्ति जे१ खं० ॥ ३. सामाचार्यां जे१ । 'सामाचार्य जे२ । ४. अथवा ग्रामादौ १ ॥ ५. 'मुपागता: पा० जे२ ॥ Jain Education International For Private & Personal Use Only 25 www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy