________________
४७७
[सू० ३५८] चतुर्थमध्ययनं चतुःस्थानकम् । चतुर्थ उद्देशकः । तंजहा-उत्ताणे णाममेगे उत्ताणोभासी ह्व [= ४], ८ ।
[टी०] एते च कामा: तुच्छ-गम्भीरयोर्बाधकेतरा इति तावभिधित्सुः सदृष्टान्तान्यष्टौ सूत्राण्याह चत्तारीत्यादीनि व्यक्तानि च, किन्तु उदकानि जलानि प्रज्ञप्तानि, तत्रोत्तानं नामैकं तुच्छत्वात् प्रतलमित्यर्थः, पुनरुत्तानं स्वच्छतयोपलभ्यमध्यस्वरूपत्वाददकं जलम्, उत्ताणोदये त्ति व्यस्तोऽयं निर्देश: प्राकृतशैलीवशात् समस्त इवावभासते, न 5 च मूलोपात्तेनोदकशब्देनायं गतार्थो भविष्यतीति वाच्यम्, तस्य बहुवचनान्तत्वेनेहासम्बध्यमानत्वात्, साक्षादुदकशब्दे च सति किं तस्य वचनपरिणामादनुकर्षणेनेत्येवमुदधिसूत्रेऽपि भावनीयमिति १। तथोत्तानं तथैव, गम्भीरमुदकं गडुलत्वादनुपलभ्यमानस्वरूपम् २, तथा गम्भीरम् अगाधं प्रचुरत्वादुत्तानमुदकं स्वच्छतयोपलभ्यमध्यस्वरूपत्वात् ३, तथा गम्भीरमगाधत्वात् 10 पुनर्गम्भीरमुदकं गडुलत्वादिति ४ । पुरुषस्तु उत्तान: अगम्भीरो बहिर्दर्शितमददैन्यादिजन्यविकृतकायवाक्चेष्टत्वादुत्तानहृदयस्तु दैन्यादियुक्तगुह्यधरणासमर्थचित्तत्वादित्येकः । अन्य उत्तान: कारणवशाद्दर्शितविकृतचेष्टत्वात् गम्भीरहृदयस्तु स्वभावेनोत्तानहृदयविपरीतत्वात् । तृतीयस्तु गम्भीरो दैन्यादिव(म?)त्त्वेऽपि कारणवशात् संवृताकारतया, उत्तानहृदयस्तथैव । चतुर्थः प्रथमविपर्ययादिति । तथा उत्तानं 15 प्रतलत्वादुत्तानमवभासते स्थानविशेषात् १। तथोत्तानं तथैव, गम्भीरम् अगाधमवभासते सङ्कीर्णाश्रयत्वादिना २। तथा गम्भीरम् अगाधमुत्तानावभासि तु विस्तीर्णस्थानाश्रयत्वादिना ३। तथा गम्भीरम् अगाधं गम्भीरावभासि तथाविधस्थानाश्रितत्वादिनैवेति ४, पुरुषस्तूत्तान: तुच्छः, उत्तान एवावभासते प्रदर्शिततुच्छत्वविकारत्वाद्, द्वितीय: संवृतत्वात्, तृतीय: कारणतो दर्शितविकारत्वात्, 20 चतुर्थः सुज्ञान: । तथा उदकसूत्रद्वयवदुदधिसूत्रद्वयमपि सदार्टान्तिकमवसेयमिति, अथवा उत्तान: सगाधत्वादेक उदधिः उदधिदेश: पूर्वम्, पश्चादपि उत्तान एव वेलाया बहिःसमुद्रेष्वभावात्, द्वितीयस्तूत्तान: पूर्वं पश्चाद् गम्भीरो वेलाऽऽगमेनागाधत्वात्, तृतीयस्तु गम्भीरः पूर्वं पश्चात् वेलाविगमेनोत्तान उदधिः, चतुर्थः सुज्ञान: । १. संबंध्य जे१ ॥ २. "द्वयमपि सदार्टी' जे१ खं० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org