SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ श्री गुरुस्तुतिः ॥ श्रीसद्गुरुदेवाय नमः । श्रीसद्गुरुः शरणम् ॥ पूज्यपाद अनन्तउपकारी पिताश्री तथा गुरुदेव मुनिराजश्री १००८ भुवनविजयजी महाराज ! बहुपुण्याश्रितं दत्त्वा दुर्लभं नरजन्म मे । लालनां पालनां पुष्टिं कृत्वा वात्सल्यतस्तथा ॥१|| वितीर्य धर्मसंस्कारानुत्तमांश्च गृहस्थितौ । भवद्भिः सुपितृत्वेन सुबहूपकृतोऽसम्यहम् ॥२॥ ततो भवद्भिर्दीक्षित्वा भगवत्यागवर्त्मनि । अहमप्युद्धतो मार्ग तमेवारोह्य पावनम् ॥३॥ ततः शास्त्रोक्तपद्धत्या नानादेशविहारतः । अचीकरन् भवन्तो मां तीर्थयात्राः शुभावहाः ॥४॥ अनेकशास्त्राध्ययनं भवद्भिः कारितोऽस्म्यहम् । ज्ञान-चारित्रसंस्कारैरुत्तमैर्वासितोऽस्मि च ॥५॥ ममात्मश्रेयसे नित्यं भवद्भिश्चिन्तनं कृतम् । व्यापृताश्च ममोन्नत्यै सदा स्वाखिलशक्तयः ॥६॥ ममाविनयदोषाश्च सदा क्षान्ता दयालुभिः । इत्थं भवदनन्तोपकारैरुपकृतोऽस्म्यहम् ॥७॥ मोक्षाध्वसत्पान्थ ! मुनीन्द्र ! हे गुरो ! वचोऽतिगाः वः खलु मय्युपक्रियाः । असम्भवप्रत्युपकारसाधना: स्मृत्वाहमद्यापि भवामि गद्गदः ॥८॥ - तत्रभवदन्तेवासी शिशुर्जम्बूविजयः
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy