SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ [सू० २९८-२९९] चतुर्थमध्ययनं चतुःस्थानकम् । द्वितीय उद्देशकः । ३७९ सर्वं निरवशेषसर्वम्, यथा अनिमिषाः सर्वे देवाः, न हि देवव्यक्तिरनिमिषत्वं काचिद् व्यभिचरतीत्यर्थः, सर्वत्र ककार: स्वार्थिको द्रष्टव्यः । [सू० २९८] माणुसुत्तरस्स णं पव्वयस्स चउद्दिसिं चत्तारि कूडा पन्नत्ता, तंजहा-रयणे, रतणुच्चते, सव्वरयणे, रतणसंचये । [टी०] अनन्तरं सर्वं प्ररूपितम्, तत्प्रस्तावात् सर्वमनुष्यक्षेत्रपर्यन्तवर्तिनि पर्वते 5 सर्वासु तिर्यग्दिक्षु कूटानि प्ररूपयन्नाह- माणुसुत्तरस्सेत्यादि स्फुटम्, किन्तु चउद्दिसिं ति चतसृणां दिशां समाहारश्चतुर्दिक्, तस्मिंश्चतुर्दिशि, अनुस्वारः प्राकृतत्वादिति, कूटानि शिखराणि, इह च दिग्ग्रहणेऽपि विदिक्ष्विति द्रष्टव्यम्, तत्र दक्षिणपूर्वस्यां दिशि रत्नकूटं गरुडस्य वेणुदेवस्य निवासभूतम्, तथा दक्षिणापरस्यां दिशि रत्नोच्चयकूटं वेलम्बसुखदमित्यपरनामकं वेलम्बस्य वायुकुमारेन्द्रस्य सम्बन्धि, तथा पूर्वोत्तरस्यां 10 दिशि सर्वरत्नकूटं वेणुदालिसुपर्णकुमारेन्द्रस्य, तथा अपरोत्तरस्यां रत्नसञ्चयकूटं प्रभञ्जनापरनामकं प्रभञ्जनवायुकुमारेन्द्रस्येति, एवं चैतद् व्याख्यायते द्वीपसागरप्रज्ञप्तिसङ्ग्रहण्यनुसारेण, यतस्तत्रोक्तम् दक्खिणपुव्वेण रयणकूडं गरुलस्स वेणुदेवस्स । सव्वरयणं च पुव्वुत्तरेण तं वेणुदालिस्स ॥ रयणस्स अवरपासे तिन्नि वि समइच्छिऊण कूडाइं । कूडं वेलंबस्स उ विलंबसुहयं सया होइ ॥ सव्वरयणस्स अवरेण तिन्नि समइच्छिऊण कूडाइं । कूडं पभंजणस्स उ पभंजणं आढियं होइ ॥ [द्वीपसागर० १६-१८] त्ति । इह चतुःस्थानकानुरोधेन चत्वार्युक्तानि, अन्यथा अन्यान्यपि द्वादश सन्ति, 20 पूर्वदक्षिणापरोत्तरासु त्रीणि त्रीणि, द्वादशापि चैकैकदेवाधिष्ठितानीति, उक्तं च पुव्वेण तिन्नि कूडा दाहिणओ तिण्णि तिण्णि अवरेणं ।। उत्तरओ तिन्नि भवे चउद्दिसिं माणुसनगस्स ॥ [द्वीपसागर० ६] त्ति । [सू० २९९] जंबूदीवे दीवे भरहेरवतेसु वासेसु तीताते उस्सप्पिणीए सुसमसुसमाते समाते चत्तारि सागरोवमकोडाकोडीओ कालो होत्था । 25 १. सर्वदेवा जे१ ॥ 15 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy