SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ २६० आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे स्वीकरणं समुदानं निपातनात्तदेव क्रिया कर्मेति समुदानक्रियेति, अज्ञानाद्या चेष्टा कर्म वा सा अज्ञानक्रियेति २। प्रयोगक्रिया त्रिविधा व्याख्यातार्था ३ । नास्त्यन्तरं व्यवधानं यस्या: साऽनन्तरा, सा चासौ समुदानक्रिया चेति विग्रह:, प्रथमसमयवर्तिनीत्यर्थः, द्वितीयादिसमयवर्तिनी तु परम्परसमुदानक्रियेति, 5 प्रथमाप्रथमसमयापेक्षया तु तदुभयसमुदानक्रियेति ४ । मइअन्नाणकिरिय त्ति अविसेसिया मइच्चिय सम्मद्दिट्ठिस्स सा मइन्नाणं । मइअन्नाणं मिच्छादिट्ठिस्स सुयं पि एमेव ॥ [विशेषाव० ११४] त्ति । मत्यज्ञानात् क्रिया अनुष्ठानं मत्यज्ञानक्रिया, एवमितरे अपि, नवरं विभङ्गो मिथ्यादृष्टेरवधिः, स एवाज्ञानं विभङ्गाज्ञानमिति ५। 10 व्याख्यातमक्रियामिथ्यात्वम्, अविनयमिथ्यात्वव्याख्यानायाह- अविणयेत्यादि, विशिष्टो नयो विनय: प्रतिपत्तिविशेषः, तत्प्रतिषेधादविनयः, देशस्य जन्मक्षेत्रादेस्त्यागो देशत्यागः, स यस्मिन्नविनये प्रभुगालीदानादावस्ति स देशत्यागी। निर्गत आलम्बनाद् आश्रयणीयात् गच्छ-कुटुम्बकादेरिति निरालम्बनः, तद्भावो निरालम्बनता, आश्रयणीयानपेक्षत्वमिति भावः, पुष्टालम्बनाभावेन वोचितप्रतिपत्तिभ्रंशः । प्रेम च द्वेषश्च 15 प्रेमद्वेषम्, नानाप्रकारं प्रेमद्वेषं नानाप्रेमद्वेषमविनयः, इयमत्र भावना आराध्यविषयमाराध्यसंमतविषयं वा प्रेम तथाऽऽराध्यासम्मतविषयो द्वेष इत्येवं नियतावेतौ विनय: स्यात्, उक्तं च सरुषि नुति: स्तुतिवचनं तदभिमते प्रेम तद्विषि द्वेषः । दानमुपकारकीर्तनममन्त्रमूलं वशीकरणम् ॥ [ ] इति । 20 नानाप्रकारौ तु तावाराध्यतत्संमतेतरलक्षणविशेषानपेक्षत्वेनानियतविषयावविनय इति। अज्ञानमिथ्यात्वमित उच्यते – अन्नाणेत्यादि, ज्ञानं हि द्रव्यपर्यायविषयो बोधः, तन्निषेधोऽज्ञानम्, तत्र विवक्षितद्रव्यं देशतो यदा न जानाति तदा देशाज्ञानमकारप्रश्लेषात्, यदा च सर्वतस्तदा सर्वाज्ञानम्, यदा विवक्षितपर्यायतो न जानाति तदा भावाज्ञानमिति, अथवा देशादिज्ञानमपि मिथ्यात्वविशिष्टमज्ञानमेवेति अकारप्रश्लेषं विनापि न दोष इति। १. लीप्रदाना' पा० जे२ ।। २. नतिः पासं० जे२ । अत्र प्राचीनत्वात् 'नुतिः' इति पाठोऽस्माभिः स्वीकृतः ।। ३. रौ च तावा पा० जे२ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy