________________
१८४
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे त्रिभिः स्थानैः कारणैः जीवा: प्राणिनः अप्पाउयत्ताए त्ति अल्पं स्तोकमायुः जीवितं यस्य सोऽल्पायुस्तद्रावस्तत्ता तस्यै अल्पायुष्टायै, तदर्थं तन्निबन्धनमित्यर्थः, कर्म आयुष्कादि, अथवा अल्पमायुः जीवितं यत आयुषस्तदल्पायुः, तद्भावस्तत्ता, तया कर्म आयुर्लक्षणं प्रकुर्वन्ति बध्नन्तीत्यर्थः, तद्यथा- प्राणान् प्राणिनोऽतिपातयितेति 5 शीलार्थतन्नन्तमिति कर्मणि द्वितीयेति, प्राणिनां विनाशनशील इत्यर्थः, एवंभूतो यो भवति, एवं मृषावादं वक्ता यश्च भवति, तथा तत्प्रकारं रूपं स्वभावो नेपथ्यादि वा यस्य स तथारूप: दानोचित इत्यर्थः, तम्, श्राम्यति तपस्यतीति श्रमणः तपोयुक्तस्तम्, मा हन इत्याचष्टे यः परं प्रति स्वयं हनननिवृत्तः सन्निति स माहनो मूलगुणधरस्तम्,
वाशब्दौ विशेषणसमुच्चयार्थी, प्रगता असवः असुमन्तः प्राणिनो यस्मात् तत् प्रासुकम्, 10 तनिषेधादप्रासुकं सचेतनमित्यर्थः, तेन, एष्यते गवेष्यते उद्गमादिदोषविकलतया साधुभिर्यत्तदेषणीयं कल्प्यं तन्निषेधादनेषणीयम्, तेन, अश्यते भुज्यते इत्यशनं च
ओदनादि, पीयत इति पानं च सौवीरकादि, खादनं खादस्तेन निर्वृत्तं खादनार्थं तस्य निर्वर्त्यमानत्वादिति खादिमं च भक्तौषधादि, स्वादनं स्वादः तेन निर्वृत्तं स्वादिमं
दन्तपवनादीति समाहारद्वन्द्वः, तेन, गाथाश्चात्र15 असणं ओदण-सत्तुग-मुग्ग-जगाराइ खज्जगविही य ।
खीराइ सूरणादी मंडगपभिती य विन्नेयं ॥ पाणं सोवीरजवोदगाइ चित्तं सुराइयं चेव । आउक्काओ सव्वो कक्कडगजलाइयं च तहा ॥ भत्तोसं दंताई खज्जूरं नालिकेर-दक्खाई। कक्कडिगंबग-फणसादि बहुविहं खाइमं नेयं ।। दंतवणं तंबोलं चित्तं अज्जग-कुहेडगादीयं । महुपिप्पलिसुंठादी अणेगहा सादिमं होइ ॥ [पञ्चाशक० ५।२७-३०] त्ति । प्रतिलम्भयिता लाभवन्तं करोतीत्येवंशीलो यश्च भवति, ते अल्पायुष्कतया कर्म कुर्वन्तीति प्रक्रमः, इच्चेएहिं ति इत्येतैः प्राणातिपातादिभिरुक्तप्रकारैस्त्रिभिः स्थानैः 25 जीवा अल्पायुष्टया कर्म कुर्वन्तीति निगमनमिति । इह च प्राणातिपातयित्रादि
पुरुषनिर्देशेऽपि प्राणातिपातादीनामेवाल्पायुर्बन्धनिबन्धनत्वेन तत्कारणत्वमुक्त द्रष्टव्यमिति। १. “आ क्वेस्तच्छील-तद्धर्म-तत्साधुकारिषु । तृन् ।"-पा० ३।२।१३४-१३५ । “न निष्ठा-ऽव्यय-खलर्थ
तृनाम् ।”-पा० २।३।६९
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org