________________
-
श्री गुरुस्तुतिः ॥ श्रीसद्गुरुदेवाय नमः । श्रीसद्गुरुः शरणम् ।। पूज्यपाद अनन्तउपकारी पिताश्री तथा गुरुदेव मुनिराजश्री १००८
भुवनविजयजी महाराज ! बहुपुण्याश्रितं दत्त्वा दुर्लभं नरजन्म मे । लालनां पालनां पुष्टिं कृत्वा वात्सल्यतस्तथा ॥१॥ वितीर्य धर्मसंस्कारानुत्तमांश्च गृहस्थितौ । भवद्भिः सुपितृत्वेन सुबहूपकृतोऽस्म्यहम् ॥२।। ततो भवद्भिर्दीक्षित्वा भगवत्यागवर्त्मनि । अहमप्युद्धृतो मार्गं तमेवारोह्य पावनम् ।।३।। ततः शास्त्रोक्तपद्धत्या नानादेशविहारतः । अचीकरन् भवन्तो मां तीर्थयात्राः शुभावहाः ॥४॥ अनेकशास्त्राध्ययनं भवद्भिः कारितोऽस्म्यहम् । ज्ञान-चारित्रसंस्कारैरुत्तमैर्वासितोऽस्मि च ॥५॥ ममात्मश्रेयसे नित्यं भवद्भिश्चिन्तनं कृतम् । व्यापृताश्च ममोन्नत्यै सदा स्वाखिलशक्तयः ॥६॥ ममाविनयदोषाश्च सदा क्षान्ता दयालुभिः । इत्थं भवदनन्तोपकारैरुपकृतोऽस्म्यहम् ॥७।। मोक्षाध्वसत्पान्थ ! मुनीन्द्र ! हे गुरो !
वचोऽतिगाः वः खलु मय्युपक्रियाः । असम्भवप्रत्युपकारसाधना:
स्मृत्वाहमद्यापि भवामि गद्गदः ॥८||
- तत्रभवदन्तेवासी शिशुञ्जम्बूविजयः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org