SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ પ્રસ્તાવના -૪૭૨). આ પ્રતિ વિક્રમસંવત ૧૨૯૫માં લખાયેલી છે. આ પ્રતિને અંતે આ પ્રમાણે १. संवत् १३०७ वर्षे-अस्तीह श्रेष्ठपर्वप्रचयपरिचितः भाभृदाप्तप्रतिष्ठः सच्छायश्चारुवर्णः सकलसरलतालंकृतः शस्तवृत्तः। पल्लीवालाख्यवंशो नगति सुविदितस्तत्र मुक्तेव साधुः ___ साधुव्रातप्रणता वरहुडिरिति सरख्यातिमान् नेमडोऽभूत् ॥१॥ तस्योच्चैस्तनया विशुद्धविनयास्तत्रादिमो राहडो जज्ञेऽतः सहदेव इत्यभिधया लब्धप्रसिद्धिर्जने। उत्पन्नो जयदेव इत्यवहितस्वान्तः सुधर्मे तत स्तत्राद्यस्य सदा प्रिया प्रियतमा लक्ष्मीः तथा नाइकिः ॥२॥ आद्याया जिनचंद्र इत्यनुदिनं सद्धर्मकर्मोद्यतः पुत्रश्चाहिणीसंज्ञिता सहचरी तस्य त्वमी सूनवः। ज्येष्ठोऽभूत् किल देवचंद्र इति यो द्रव्यं व्ययित्वा निजं ___सत्तीर्थेषु शिवाय संघपतिरित्याख्यां सुधीलब्धवान् ॥३॥ नामंधराख्योऽथ महाधराख्योऽतो वीरधवलाभिध-भीमदेवौ। पुत्री तथा धाहिणिनामिकाऽभूत् सर्वेऽपि जैनांहिसरोजभंगाः॥४॥ श्रीदेवभद्रगणिपादसरोरुहालेर्भक्त्याऽनमद विजयचंद्रमुनीश्वरस्य । देवेन्द्रसूरिसुगुरोः पदपद्ममूले तत्रान्तिमौ जगृहतुर्यतितां शिवोत्को ॥५॥ नाइकेस्तु सुता जातास्तत्र ज्येष्ठो धनेश्वरः। खेतूनाम्नी प्रिया तस्य अरिसिंहादयः सुताः ॥ ६॥ द्वैतीयीकः सुसाधुश्रुतवचनसुधास्वादनातृप्तचित्तः श्रीमजैनेन्द्रबिम्ब-प्रवरजिनगृह-प्रोल्लसत्पुस्तकादौ । सप्तक्षेत्र्यां प्रभूतव्ययितनिजधनो लाहडो नामतोऽभूत् ___ लक्ष्मश्रीरित्यभिख्या सुचरितसहिता तस्य भार्या सदार्या ॥७॥ अभयकुमाराभिख्यस्तृतीयोऽजनि नंदनः। यो दधे मानस धर्मश्रद्धासंबंधबंधुरम् ॥८॥ धर्मे सहाया सहदेवसाधोः सौभाग्यदेवीति बभूव जाया। पुत्रौ च खेढाभिध-गोसलाख्यौ प्रभावको श्रीजिनशासनस्य ॥९॥ किंच । यौ कृत्वा गुणसंघकेलिभवनं श्रीसंघमुच्चैस्तरां __ श्रीशत्रुजय-रैवतरप्रभृतिषु प्रख्याततीर्थेषु च । न्यायोपार्जितमर्थसार्थनिवहं स्वीयं व्ययित्वा भृशं लेभाते मुचिराय संघातिरित्याख्यां स्फुटां भूतले ॥१०॥ आद्यस्य नशे किल षींवदेवी नाम्ना कलत्रं सुविवेकपात्रम् । तथा सुता जेहड-हेमचंद्र-कुमारपालाभिध-पासदेवाः ॥११॥ अभवद् गोसलसाधोर्गुणदेवीति वल्लमा। नंदनो हरिचंद्राख्यो देमतीति च पुत्रिका ॥ १२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy