________________
५१८
शाताधर्मकथाङ्गसूत्रे 'वण्णओ' आदिग्राह्याः पाठाः त्ति दीप्यमानः, मणिरलानां सम्बन्धि पादपीठं यस्य सिंहासनस्य तत्तथा, स्वेन स्वकीयेन मेषकुमारसम्बन्धिना पादुकायुगेन समायुक्तं यत्ततथा, बहुभिः किङ्करैः किं कुर्वाणैः कर्मकरपुरुषैः पादातेन च पदातिसमूहेन शस्त्राणिना परिक्षिप्तं यत्तत्तथा, कूय त्ति कुतुपः, हडप्पो ति आभरणकरण्डकम् , मुंडिणो मुण्डिताः, छिहंडिगो शिखावन्तः, डमरकराः परस्परेण कलहविधायकाः, चाटुकराः प्रियंवदाः, सोहंता यत्ति शोभां कुर्वन्तः, सावंता यत्ति श्रावयन्तः आशीर्वचनानि, रक्षन्तः न्यायम् , भालोकं च कुर्वाणाः मेषकुमारं तत्समृद्धिं च पश्यन्तः। ___ जात्यानां काम्बोजादिदेशोद्भवानां तरोमलिनो बलाधायिनो वेगाधायिनो वा हायनाः संवत्सरा मते तथा तेषाम. अन्ये तु भायलत्ति मन्यन्ते तत्र भायला जात्यविशेषा एवेति. गमनिकैवैषा, थासका दर्पणाकाराः अहिलाणानि च कविकानि येषां सन्ति ते तथा, मतुब्लोपात् , चामरगंडा चामरदण्डास्तैः परिमण्डिता कटी येषां ते तथा तेषाम् ।
ईषदान्तानां मनाम् ग्राहितशिक्षाणामीषन्मत्तानां नातिमत्तानाम् , ते हि जनमुपद्रवयन्तीति, ईषत् मनागुत्सङ्गःइवोत्सङ्गःपृष्ठिदेशस्तत्र विशाला विस्तीर्णा धवलदन्ताश्च येते तथा तेषाम् , कोशी प्रतिमा।
नन्दिघोषः तूर्यनादः, अथवा सुनन्दी सत्समृद्धिको घोषो येषां ते तथा तेषाम् , सकिङ्किणि सक्षुद्रघण्टिकं यजालं मुक्ताफलादिमयं तेन परिक्षिप्ता ये ते तथा तेषाम्, तथा हैमवतानि हिमवत्पर्वतोद्भवानि चित्राणि तिनिशस्य वृक्षविशेषस्य सम्बन्धीनि कनकनियुक्तानि हेमखचितानि दारूणि काष्ठानि येषां ते तथा, तेषाम् , कालायसेन लोहविशेषेण सुष्टु कृतं नेमेः गण्डमालायाः यन्त्राणां च स्योपकरणविशेषाणां कर्म येषां ते तथा, तेषाम् , सुश्लिष्ट वित्त त्ति वेत्रदण्डवत् मण्डले वृत्ते धुरौ येषां ते तथा, तेषाम्। माकीर्णा वेगादिगुणयुक्ताः ये वस्तुरगास्ते सम्प्रयुक्ता योजिता येषु ते तथा, तेषाम् , कुशलतराणां मध्ये ये छेकाः दक्षाःसारथयस्तैः सुसम्परिगृहीता ये ते तथा, तेषाम्, तोण त्ति शरभस्त्राः, सह कण्टकैः कवचैवैशैश्च वर्तन्ते येते तथा, तेषाम् , सचापाः धनुर्युक्ता ये शराः प्रहरणानि च खड्गादीनि आवरणानि च शीर्षकादीनि तैर्ये भृता युद्धसज्जाश्च युद्धप्रगुणाश्च ये ते तथा, तेषाम् ।
लउड तिलकुटाः अस्यादिकानि पाणौ हस्ते यस्य तत्तथा तच्च तत्सजं च प्रगुणं युद्धस्येति गम्यते, पादातानीकं पदातिकटकम् ।
हारावस्तृतं सुकृतिरतिकं विहितसुखं वक्षो यस्य स तथा, मुकुटदीप्तशिरस्कः, पहारेत्य गमणयाए ति गमनाय प्रधारितवान् सम्प्रधारितवान्। मह त्ति महान्तः अश्वाः, अश्वधराः ये अश्वान् धारयन्ति, नागा हस्तिनः, नागधरा ये हस्तिनो धारयन्ति, क्वचिद् वरा इति पाठः, तत्राश्वा नागाश्च किंविधाः१ अश्ववरा अश्वप्रधानाः, एवं नागवराः, तथा स्थाः, स्थसंवेल्ली रथमाला, क्वचित् रहसंगेल्लीति पाठः, तत्र स्थसङ्गेली रथसमूहः।।
तए णं से मेहे कुमारे अब्भागयभिंगारे इत्यादि वर्णकोपसंहारवचन मिति न पुनरुक्तम् । सविडीए इत्यादि दोहदावसरे व्याख्यातम् । शङ्खः प्रतीतः, पणवो भाण्डानां पटहः, पटहस्तु प्रतीत एव, भेरी ढक्काकारा, झल्लरी वलयाकारा, खरमुही काहला, हुडुक्का प्रतीता, महाप्रमाणो मर्दलो मुरजः, स एव लघुर्मृदङ्गः, दुन्दुभिः मेर्याकारा सङ्कटमुखी, एतेषां निर्घोषो महाध्वानो नादितं च घण्टायामिव वादनोत्तरकालभावी सततध्वनिः, तल्लक्षणो यो स्वस्तेन, अर्थार्थिनो द्रव्यार्थिनः, कामार्थिनः शब्दरूपार्थिनः, भोगार्थिनः गन्धरसस्पर्शार्थिनः, लाभार्थिनः सामान्येन लाभेप्सवः, किल्बिधिकाः पातकफलवन्तो निःस्वान्धपङ्ग्वादयः, कारोटिकाः कापालिकाः, कारो राजदेयं द्रव्यम् , तद् वहन्ति ये ते कारवाहिकाः, कारेण वा बाधिताः पीडिता ये ते कारबाधिताः, शङ्खवादनं शिल्पमेषामिति शाङ्खिकाः, शङ्खो वा विद्यते येषां मङ्गल्यचन्दनाधारभूतः ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org